SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चेतोदूतम्. अन्येषां तु प्रतिहतधियामेष यत्कामिनीनां लोलापाङ्र्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥३०॥ धीरत्वाधाकृतसुरगिरीन् यान् विना नैव कश्चित् शक्तः सोडुं युवमृगदृशां दुःसहान् दृग्विलासान् । यस्माद्विश्वाद्भुतसुभगताशालिनीनाममोघं स्त्रीणामाद्यः प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३१ ॥ येषां साक्षादिव जलमुंचां संवरापूरितानां ... विज्ञाः के के न खलु रचयन्त्यत्र विज्ञप्तिमित्थम् । स्फीताप्येषा गुणततिसरित्त्वद्वियोगात्तनिष्ठा कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥३२॥ . सान्द्रानन्दैविबुधनिवहैः सेव्यमाना समन्ता नानाभेदैः प्रतिदिनभवैरुत्सवैरुज्ज्वलश्रीः । . येषामेषा शुभति सुभगास्थानभूर्भूतलस्या शेषैः पुण्यैर्हतमिव दिवः कान्तिमत् खण्डमेकम् ॥३३॥ अस्यस्तापं असमररसः प्रीणयन् सङ्गमेन स्निग्धोऽत्यन्तं वशयति नृणां चित्तवृत्तीः सुकान्ताः । येषां प्रेडद्वचनविसरः शीतलत्वाँस्तसाम्भ: सिमावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३४ ॥ १ जलमुचामिव येषां संरावपूरितानामिति संबन्धः । संवरो हि मुनीनां प्रसिद्धः, मेघ पक्षे तु संवरं जलम् । २ शुभति राजते । तौदादिकस्य शुभे रुपमिदम् । ३ शीतलत्वेन अस्तः तिरस्कृतः साम्भः जलसंपृक्तः सिप्रा (नदी) वातो येन तथोक्तो येषां वचनविसरो रसवत्त्वेन, कान्तारूपाणां चित्तत्तीनां वशीकरणेन च प्रियतम इवेति भावः ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy