________________
४५
धर्मसंग्रह भाग-५/द्वितीय अधिकार | cs-१२ एवाकारा भवन्ति तथा एकासनस्य पौरुष्याः पूर्वार्द्धस्यैव च सूत्रेऽभिधानेऽपि द्व्यासनकस्य सार्द्धपौरुष्या अपार्द्धस्य च प्रत्याख्यानमदुष्टम्, अप्रमादवृद्धेः सम्भवात् आकारा अप्येकासनादिसम्बन्धिन एवान्येष्वपिन्याय्याः, आसनादिशब्दसाम्यात्, चतुर्विधाहारपाठेऽपि द्विविधत्रिविधाहारप्रत्याख्यानवत् ननु द्व्यासनादीन्यभिग्रहप्रत्याख्यानानि, ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति नैवं, एकाशनादिभिस्तुल्य
योगक्षेमत्वात् ।
अन्ये तु मन्यन्ते-एवं हि प्रत्याख्यानसङ्ख्या विशीर्येत । तत एकासनादीन्येव प्रत्याख्यानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत्पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति ।
ग्रन्थिसहितं च नित्यमप्रमत्ततानिमित्ततया महाफलम्, उक्तं च"जे निच्चमप्पमत्ता, गंठिं बंधंति गंठिसहिअस्स । सग्गापवग्गसुक्खं, तेहिं निबद्धं सगंठंमी ।।१।। भणिऊण नमुक्कारं, निच्चं विस्सरणवज्जिआ धन्ना । धारं(छोडं)ति गंठिसहिअं, गंठिं सह कम्मगंठिहिं ।।२।। इइ कुणई अब्भासं, अब्भासं सिवपुरस्स जइ महसि(इ) । अणसणसरिसं पुण्णं, वयंति एअस्स समयण्णू ।।३।।” [यतिदिनचर्यायाम् ५६-५८] रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशत् द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धाः, भोजनताम्बूलजलव्यापारणादौ हि प्रत्यहं घटीद्वयद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयचतुष्टयसम्भवे त्वष्टाविंशतिर्यदुक्तं पद्मचरित्रे"भुंजइ अणंतरेणं, दुन्नि उ वेलाउ जो निओगेणं । सो पावइ उववासं, अट्ठावीसं तु मासेणं ।।१।। इक्कंपि अह मुहुत्तं, परिवज्जइ जो चउव्विहाहारं । मासेणं तस्स जायइ, उववासफलं तु परलोए ।।२।। दसवरिससहस्साऊं, भुंजइ जो अण्णदेवयाभत्तो ।। पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ।।३।। एवं मुहुत्तबुद्धी, उववासे छट्ठअट्ठमाईणं ।। जो कुणइ जहाथामं, तस्स फलं तारिसं भणिअं ।।४।।"