________________
35
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | cs-१२ स्वाद्यं दन्तकाष्ठताम्बूलतुलसिकापिण्डाजंकमधुपिप्पल्यादि, यदाह"दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाई यं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइ ।।४।।" [पञ्चाशके ५-३०, प्रवचनसारो. २१०]
अनेकधेति श्राद्धविधिवृत्तौ [प. ४५] यथा-सुण्ठीहरितकीपिप्पलीमरीचजीरकअजमकजातिफलजावन्त्रीकसेल्लककत्थकखदिरवटिकाजेष्ठीमधुतमालपत्रएलालविङ्गकाठीविडङ्गविडलवणअज्जकअजमोदकुलिञ्जणपिप्पलीमूलचिणीकबाबाकव्वूरकमुस्ताकंटासेलिओकर्पूरसौर्वचलहरडांबिभीतककुम्भठोबब्बूलधवखदिरखीचडादिकछल्लीपत्रपूगहिङ्गुलाष्टकहिगुत्रेवीसुपञ्चकूलजवासकमूलवावचीतुलसीकर्पूरीकन्दादिकम् ।
जीरकं स्वभाष्यप्रवचनसारोद्धाराभिप्रायेण स्वाद्यम्, कल्पवृत्त्यभिप्रायेण तु खाद्यम्, अजमकं खाद्यमिति केचित् सर्वं स्वाद्यं एलाकर्पूरादि जलं च द्विविधाहारप्रत्याख्याने कल्पते वेसणविरहालीसो- . आकोठवडीआमलागण्ठीआंबागोलीकउचिलीचूइपत्रप्रमुखं खाद्यत्वाद् द्विविधाहारे न कल्पते ।।
त्रिविधाहारे तु जलमेव कल्पते शास्त्रेषु मधुगुडशर्कराखण्डाद्यपि खाद्यतया द्राक्षाशर्करादिजलं तक्रादि च पानकतयोक्तमपि द्विविधाहारादौ न कल्पते । उक्तं च
"दक्खापाणाईअं, पाणं तह साइमं गुडाईअं । पढिअं सुअंमि तहवि हु, तित्तीजणगंति नायरिअं ।।१।।" [नागपुरीयगच्छप्रत्याख्यानभाष्ये]
अनाहारतया व्यवह्रियमाणान्यपि प्रसङ्गतो दर्श्यन्ते यथा-पञ्चाङ्गनिंबगुडूचीकडूकिरिआतुंअतिविसचीडिसकडिरक्षाहरिद्रारोहिणीउपलोटवज्रत्रिफलाबाउलछल्लीत्यन्ये धमासोनाहिआसन्धिरी
गणीएलीओगुग्गुलहरडीदलवउणिबदरीकंथेरिकरीरमूलपूंआडमजीठबोलबीउकुंआरिचीत्रककुन्दरुप्रभृत्यनिष्टास्वादानि रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानीति [श्राद्धविधिवृत्तौ प. ४५] कृतं प्रसङ्गेन ।
अत्र नियमभङ्गभयादाकारावाह-'अन्नत्थणाभोगेणं सहसागारेणं', अत्र पञ्चम्यर्थे तृतीया, अन्यत्रेति परिवर्जनार्थः, यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योद्धाः पराङ्मुखाः' इति, ततोऽन्यत्रानाभोगात् सहसाकाराच्च, एतौ वर्ज्जयित्वेत्यर्थः तत्रानाभोगोऽत्यन्तविस्मृतिः, सहसाकारोऽतिप्रवृत्तयोगानिवर्त्तनमिति ।
अथ पौरुषीप्रत्याख्यानम्-'पोरुसिं पच्चक्खाइ, उग्गए सूरे चउब्विहंपि आहारं असणं ४, अण्णत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहूवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ' । [प्रत्याख्यान आवश्यके, हारिभद्रीवृत्तिः प. ८५२]