________________
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૨ "तत्थ अवन्नासायण, पल्हत्थिअ देवपिट्ठिदाणं च । पुडपुडअपयपसारण, दुट्ठासणसेव जिणगेहे ।।२।।" "जारिसतारिसवेसो, जहा तहा जंमि तंमि कालंमि । पूआइ कुणइ सुन्नो, अणायरासायणा एसा ।।३।।" “भोगो तंबोलाई, कीरंतो जिणगिहे कुणइ वस्सं । नाणाइआण आयस्स, सायणं तो तमिह वज्जे ।।४।।" “रागेण व दोसेण व, मोहेण व दूसिआ मणोवित्ती । दुप्पणिहाणं भण्णइ, जिणविसए तं न कायव्वं ।।५।।" "धरणरणरुअणविगहातिरिबंधणरंधणाई गिहिकिरिआ । गालीविज्जवणिज्जाइ, चेइए वयणुचिअवित्ती ।।६।।" [सम्बोधप्रकरणे ८०-८५] आशातनाश्चात्यन्तविषयिणः सतताविरता देवा अपि देवगृहादौ सर्वथा वर्जयन्ति, उक्तं हि"देवहरयंमि देवा, विसयविसविमोहिआवि न कयावि । अच्छरसाहिपि समं, हासक्कीडाइ वि कुणंति ।।१।।" [श्राद्धदिनकृत्ये गा. १२४] एताश्चाशातना जिनालये क्रियमाणा न केवलं गृहिणामेव निषिद्धाः, किन्तु यथासम्भवं साधूनामपीति ज्ञेयम् । यत उक्तम्"आसायणा उ भवभमणकारणं इय विभाविउं जइणो । ...... मलमलिणुत्ति न जिणमंदिरंमि निवसंति इइ समओ ।।१।।" [प्रवचनसारोद्धारे ४३७] त्ति । गुर्वाशातनापि त्रिधा, तत्र गुरोः पादादिना सङ्घट्टादौ जघन्या १, श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमा २, गुर्वादेशाकरणविपरीतकरणपरुषभाषणादावुत्कृष्टा ३ सङ्ख्यया च गुरुवन्दनाधिकारे वक्ष्यमाणास्त्रयस्त्रिंशत् ।
स्थापनाचार्याशातनापि त्रिधा, तस्येतस्ततश्चालनपादस्पर्शादौ जघन्या १, भूमिपातनावज्ञामोचनादौ मध्यमा २, प्रणाशनभङ्गादावुत्कृष्टा ३ एवं ज्ञानोपकरणवद्दर्शनचारित्रोपकरणस्य रजोहरणमुखवस्त्रिकादण्डकादेरपि अहवा णाणाइतिग' इति वचनाद् गुरुस्थाने स्थाप्यत्वेन विधिव्यापारणादधिका तदाशातनापि वा, यदुक्तं महानिशीथे“अविहीए निअंसणुत्तरिअं रयहरणं दंडग वा परिभुंजे चउत्थं” [ ] इति ।
तेन श्राद्धैश्चरवलकमुखवस्त्रिकादेविधिनैव व्यापारणस्वस्थानस्थापनादि कार्यमन्यथा धर्मावज्ञादिदोषापत्तेः एतासु चोत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादि महत्याशातनाऽनन्तसंसारिताहेतुश्च, यतः