________________
૧૫૭
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | खो-१४ "अभयं सुपत्तदाणं, अणुकंपाउचिअकीत्तिदाणं च । दोहिवि मुक्खो भणिओ, तिण्णिवि भोगाइअं दिति ।।१।।" पात्रता त्वेवमुक्ता"उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मद्दिट्ठी, जहन्नपत्तं मुणेअव्वं ।।१।।" तथा च"मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु, वरमेको महाव्रती ।।१।।" "महाव्रतिसहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं, न भूतं न भविष्यति ।।२।।" एवं साध्वादिसंयोगेऽवश्यं सुपात्रे दानं विवेकिना विधेयम्, तथा यथाशक्ति तदवसराद्यायातसाधर्मिकानपि सह भोजयति, तेषामपि सुपात्रत्वात् वात्सल्यमपि महते फलाय, यतो दिनकृत्ये
"साहम्मिआण वच्छल्लं, कायव्वं भत्तिनिब्भरं । देसिअं सव्वदंसीहिं, सासणस्स पभावणं ।।१।।" [श्राद्धदिनकृत्ये]
तद्विधिस्तु वार्षिककृत्याधिकारे वक्ष्यते तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः, न प्रत्यावर्त्तयति तानिराशान्, न कारयति कर्मबन्धम्, न भवति निष्ठुरहृदयः, भोजनावसरे हि द्वारपिधानादि न महतां दयावतां वा लक्षणम्, यतः"नेव दारं पिहावेइ, भुंजमाणो सुसावओ । अणुकंपा जिणिंदेहि, सड्ढाणं न निवारिआ ।।१।।" "दट्टण पाणिनिवहं, भीमे भवसायरंमि दुक्खत्तं । अविसेसओऽणुकंपं, दुहावि सामत्थओ कुणइ ।।२।।" [ ] दुहावित्ति द्रव्यभावाभ्यां द्विधा, द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन, श्रीपञ्चमाङ्गादावपि श्राद्धवर्णनाधिकारे-'अवंगुयदुवारा' इत्युक्तम्, श्रीजिनेनापि सांवत्सरिकदानेन दीनोद्धारः कृत एव नतु केनापि प्रतिषिद्धः "सव्वेहिपि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । अणुकंपादाणं सड्ढयाण न कहिपि पडिसिद्धं ।।१।।"