________________
૧૨૩
धर्मसंग्रह भाग-4 / द्वितीय मधिकार | RI5-93 सविशेषं बह्वादरेणेत्यर्थः कर्त्तव्यमेव चैतत् सदपत्यानामिह लोकगुरुषु पितृषु, न चाहद्धर्मसंयोजनमन्तरेणात्यन्तं दुष्प्रतिकारेषु तेषु अन्योऽस्ति प्रत्युपकारप्रकारः, तथाच स्थानाङ्गसूत्रम्
“तिण्हं दुप्पडिआरं समणाउसो! तंजहा-अम्मापिउणो १, भट्टिस्स २, धम्मायरि अस्स ३ ।" [३-१-१३५] इत्यादिः समग्रोऽप्यालापको वाच्यः । अथ मातृविषयौचित्ये विशेषमाह"नवरं से सविसेसं, पयडइ भावाणुवित्तिमप्पडिमं । इत्थीसहावसुलहं, पराभवं वहइ नहु जेणं ।।७।।" सविसेसंति जनकान्मातुः पूज्यत्वाद्, अपि यन्मनुः"उपाध्यायाद्दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ।।१।।" [मनुस्मृतौ २-१४५] “उचिअं एअंपि सहोअरंमि जं निअइ अप्पसममेअं । जिटुं व कणिटुंपि हु, बहुमन्नइ सव्वकज्जेसुं ।।८।।" निअइत्ति पश्यति जिटुं वत्ति ज्येष्ठो भ्राता पितृतुल्यस्तमिव, तथा"दंसइ न पुढोभावं, सब्भावं कहइ पुच्छइ अ तस्स । ववहारंमि पयट्टइ, न निगूहइ थेवमवि दविणं ।।९।।"
पयट्टइत्ति व्यवहारे प्रवर्त्तते न त्वव्यवहारे, निगूहइत्ति द्रोहबुद्ध्या नापलुते, सङ्कटे निर्वाहार्थं तु धनं निधिं करोत्येव ।
कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह“अविणीअं अणुअत्तइ, मित्तेहिंतो रहो उवालभइ । सयणजणाओ सिक्खं, दावइ अन्नावएसेणं ।।१०।।" “हिअए ससिणेहोवि हु, पयडइ कुविअं व तस्स अप्पाणं । पडिवन्नविणयमग्गं, आलवइ अछम्मपिम्मपरो ।।११।।" अछम्मित्ति निश्चयप्रेमवान्, एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति जानन् सनुदास्त एव, “तप्पणइणिपुत्ताइसुं, समदिट्ठी होइ दाणसम्माणे ।। सावक्कंमि उ इत्तो, सविसेसं कुणइ सव्वंपि ।।१२।।"