________________
34
धर्मसंग्रह भाग-४ / द्वितीय अधिकार | 25-५१
तथा प्रमार्जितपवित्रावघर्षेऽसंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डं संघर्घ्य भाजनद्वये पृथगुत्सारयेत् । तथा संशोधितजात्यधूपघृतपूर्णप्रदीपाखण्डचोक्षादिविशेषाक्षतपूगफलविशिष्टानुच्छिष्टनैवेद्यहृद्यफलनिर्मलोदकभृतपात्रादिसामग्री संयोजयेद्, एवं द्रव्यतः शुचिता, भावतः शुचिता तु रागद्वेषकषायेष्यहिकामुष्मिकस्पृहाकौतुकव्याक्षेपादित्यागेनैकाग्रचित्तता । उक्तं च“मनोवाक्कायवस्त्रोर्वीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ।।१।।" एवं द्रव्यभावाभ्यां शुचिः सन् गृहचैत्ये“आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्वदक्षिणाम् । . यत्नपूर्वं प्रविश्यान्तर्दक्षिणेनाह्रिणा ततः ।।२।। सुगन्धिमधुरैर्द्रव्यैः; प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत् ।।३।।" इत्याधुक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्त(विरच)नादिकेन च विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीनः पूर्वोत्सारितद्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजनाद्वा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृतभालकण्ठहृदुदरतिलको रचितकर्णिकाङ्गदहस्तककणादिभूषणश्चन्दनचर्चितधूपितहस्तद्वयो लोमहस्तकेन श्रीजिनाङ्गानिर्माल्यमपनयेत् । निर्माल्यं च‘भोगविणटुं दव्वं, निम्मल्लं बिंति गीअत्थ' [चेइअवंदणमहाभास गा. ८९]त्ति बृहद्भाष्यवचनात् । 'यज्जिनबिम्बारोपितं सद्विच्छायीभूतं विगन्धं जातम्, दृश्यमानं च निःश्रीकं न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति बहुश्रुता' [तुला-सवाचारवृत्ति प. ५३] इति सङ्घाचारवृत्त्युक्तेश्च भोगविनष्टमेव ।
नतु विचारसारप्रकरणोक्तप्रकारेण ढौकिताक्षतादेनिर्माल्यत्वमुचितम्, शास्त्रान्तरे तथाऽदृश्यमानत्वाद्, अक्षोदक्षमत्वाच्च, तत्त्वं पुनः केवलिगम्यम् । वर्षादौ च निर्माल्यं विशेषतः कुन्थ्वादिसंसक्तेः पृथग् पृथग् जनानाक्रम्यशुचिस्थाने त्यज्यते, एवमाशातनापि न स्यात्, स्नात्रजलमपि तथैव ।
ततः सम्यग् श्रीजिनप्रतिमाः प्रमाM उच्चैःस्थाने भोजनादावव्यापार्यपवित्रपात्रे संस्थाप्य च करयुगधृतशुचिकलशादिनाऽभिषिञ्चेत् । जलं च पूर्वं घुसृणाधुन्मिश्रं कार्यम् । यतो दिनकृत्ये"घुसिणकप्पूरमीसं तु, काउं गंधोदगं वरं । तओ भुवणनाहस्स, एहवेई भत्तिसंजुओ ।।१।।" [श्राद्धदिन. गा. ५९] 'घुसृणं-कुङ्कुमम्, कर्पूरो-घनसारस्ताभ्यां मिश्रम्, तुशब्दात्सर्वोषधिचन्दनादिपरिग्रहः' इति तद्वृत्तिः ।