________________
१८
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | CTs-५० क्षोदक्षमश्चायम्, यतो नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात्प्रागेवोच्चारयितुं युक्तम्, नतु तत्पश्चात्, कालप्रत्याख्यानस्य 'सूरे उग्गए' इति पाठबलात् सूर्योदयेनैव संबद्धत्वसिद्धेः, शेषाणि सङ्केतादीनि तु पश्चादपि कृतानि शुध्यन्ति । यतः श्राद्धविधिवृत्तौ -
“नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात् प्राग् यद्युच्चार्यते तदा शुध्यति, नान्यथा, शेषप्रत्याख्यानानि सूर्योदयात्पश्चादपि क्रियन्ते, नमस्कारसहितं च यदि सूर्योदयात्प्रागुच्चारितं तदा तत्पूर्तेरन्वयि पौरुष्यादिकालप्रत्याख्यानं क्रियते स्वस्वावधिमध्ये, नमस्कारसहितोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुध्यति, यदि दिनोदयात्प्राग् नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेरूर्ध्वमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति वृद्धव्यवहारः” ।
श्रावकदिनकृत्येऽपि-पच्चक्खाणं तु जं तंमी[गा. २२] ति गाथार्थपर्यालोचनयेयमेव वेला प्रतिपादिता संभाव्यते ।
प्रवचनसारोद्धारवृत्तावपि 'उचिए काले विहिण' [गा. २१३] त्ति गाथाव्याख्यायाम् - “उचितकाले विधिना प्राप्तं यत् स्पृष्टं तद्भणितम्, इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थं सम्यगवबुध्यमानः सूर्ये अनुद्गत एव स्वसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा स्वयं प्रतिपन्नविवक्षितप्रत्याख्यानः पश्चाच्चारित्रपवित्रगात्रस्य गीतार्थस्य गुरोः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागादिरहितः सर्वत्रोपयुक्तः प्राञ्जलिपुटो लघुतरशब्दो गुरुवचनमनूच्चरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं भवतीति" [भा. २,
प. १३७] ।
तथा प्रत्याख्यानपञ्चाशकवृत्तावपि 'गिह्णइ' [५।५]त्तिगाथा, 'गृह्णाति प्रतिपद्यते, प्रत्याख्यानमिति प्रकृतं, स्वयं गृहीतमात्मना प्रतिपन्नं विकल्पमात्रेण स्वसाक्षितया वा चैत्यस्थापनाचार्यसमक्षं वा, कदा गृह्णातीत्याह-'काले' पौरुष्यादिके आगामिनि सति, न पुनस्तदतिक्रमे, अनागतकालस्यैव प्रत्याख्यानविषयत्वात्, अतीतवर्त्तमानयोस्तु निन्दासंवरणविषयत्वादिति' [पञ्चाशकवृत्तिः प. ८९]
इत्थं च बहुग्रन्थानुसारेण कालप्रत्याख्यानं सूर्योदयात्प्रागेवोच्चार्यम्, नान्यथेति तत्त्वम् ।। अथ प्रत्याख्यानकरणानन्तरं यत्कर्त्तव्यं तदाह-विधिनेति' विधिना-अनुपदमेव वक्ष्यमाणपुष्पादिसंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यपूजनंद्रव्यभावभेदादर्हत्प्रतिमार्चनम्, अन्वयः प्राग्वदेव । चैत्यानि च भक्ति १ मङ्गल २ निश्राकृता ३ ऽनिश्राकृत ४ शाश्वत ५ चैत्यभेदात्पञ्च, यतः‘भत्ती मंगलचेइअ निस्सकडमनिस्सचेइए वावि । सासयचेइअ पंचममुवइटें जिणवरिंदेहिं ।।१।।' [प्रवचनसारोद्धारे ६५९] तत्र नित्यपूजार्थं गृहे कारिताऽर्हत्प्रतिमा भक्तिचैत्यम्, गृहद्वारोपरि तिर्यक्काष्ठमध्यभागे घटितं