________________
धर्भसंग्रह भाग-४ / द्वितीय मधिRICोs-५०
वक्ष्यते अत्र च पाण्मासिकतपःकायोत्सर्गेऽद्य का तिथिः? किं वाऽर्हतां कल्याणकमित्यादि विमृश्य तद्दिनकर्त्तव्यं प्रत्याख्यानं चिन्तयित्वा स्वयं कुर्यात्प्रत्याख्यानम्, यतः श्राद्धदिनकृत्ये -
"छण्हं तिहीण मझमि, का तिही अज्ज वासरे? । किं वा कल्लाणगं अज्ज?, लोगनाहाण संतिअं ।।१।। पच्चक्खाणं तु जं तंमि, दिणंमि गिण्हियव्वयं । चिंतिऊणं सुसड्ढो उ, कुणइ अण्णं तओ इमं ।।२।।" [गा. २१-२] ति ।
अथ च यो न प्रतिक्रामति तेनापि रागादिमयकुस्वप्नप्रद्वेषादिमयदुःस्वप्नयोरनिष्टसूचकतादृक्स्वप्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलम्भेऽष्टोत्तरशतोच्छ्वासमानोऽन्यथा तु शतोच्छ्वासमानः कायोत्सर्गः कार्यः, यदुक्तं व्यवहारभाष्ये - “पाणिवह १ मुसावाए २, अदत्त ३ मेहुण ४ परिग्गहे सुविणे । सयमेगं तु अणूणं, ऊसासाणं झविज्जाहि ।।१।। महव्वयाई झाइज्जा, सिलोगे पंचवीसई । इत्थीविप्परिआसे, सत्तावीसे सिलोइओ ।।२।। प्राणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च, मैथुने तु कृते द्वितीयगाथोत्तरार्द्धऽष्टोत्तरशतोच्छ्वासोत्सर्गस्योक्तत्वात् कारितेऽनुमोदिते च शतमेकमन्यूनमुच्छ्वासानां क्षपयेत्-पञ्चविंशत्युच्छ्वासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः ।१। अथवा महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत्, तेषामपि प्रायः पञ्चविंशतिश्लोकमानत्वात् । अथवा यान् तान् वा स्वाध्यायभूतान् पञ्चविंशतिं श्लोकान् ध्यायेत्” [] इति तद्वृत्तौ ।
आद्यपञ्चाशकवृत्तावपि 'जातु मोहोदयात्कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायेर्यापथिकीप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छ्वासप्रमाणः कायोत्सर्ग कार्यः' [ ] इति ।
श्राद्धविधौ त्वयं विशेष:-'कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्राप्रमादे पुनरेवं कायोत्सर्गः क्रियते, जातु दिवाऽपि निद्रायां कुस्वप्नाद्युपलम्भे एवं कायोत्सर्गः कर्त्तव्यो विभाव्यते, परं तदैव क्रियते सन्ध्याप्रतिक्रमणावसरे वेति निर्णयो बहुश्रुतगम्य इति' [प. ३७] .
प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्वं सच्चित्तादिचतुर्दशनियमग्रहणं स्यात्, अप्रतिक्रामकेनापि सूर्योदयात्प्राक् चतुर्दशनियमग्रहणं यथाशक्ति नमस्कारसहितग्रन्थिसहितादिद्वयासनैकाशनादियथागृहीतसच्चित्तद्रव्यविकृतिनैयत्यादिनियमोच्चारणरूपं देशावकाशिकं च कार्यमिति श्राद्धविधिवृत्तिलिखितानुवादः । [प. ३८]