________________
53
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | PRs-39 दुष्कथां-चौरपारदारिकादिकथाम, चतुर्विधाहारम् अशन-पान-खाद्य-स्वाद्यरूपम्, परिहरेदिति पूर्वतः संबन्धनीयम्" इति [योगशास्त्रटीका प. ४७५] ।
तथाऽऽलस्यादिना घृत-तैल-जलादिभाजनानामस्थगनम्, मार्गे सति हरितकायाद्युपर्यशोधिताध्वनि वा गमनम्, अनालोकितस्थाने हस्तक्षेपादि, सत्यपि स्थाने सचित्तोपरि स्थित्यादि, वस्त्रादेर्वा मोचनम्, पनककुन्थ्वाद्याक्रान्तभुव्यवश्रावणादेस्त्यजनम्, अयतनया कपाटार्गलादानादि, वृथा पत्रपुष्पादित्रोटनमृत्खटीवणिकादिमर्दनवह्नयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि, रात्रौ दिवाप्ययतनया वा स्नानकेशग्रथनरन्धनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणम, श्लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनापि प्रमादाचरणम्, मुहूर्तानन्तरं तत्र संमूर्छिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसम्भवात्, अधिकरणभूतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि, तथा वृथा क्रियाधिकारित्वापत्तेः, शास्त्रे च्युतधनुरादिजीवानामपि क्रियाधिकारित्वोक्तेः, स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यापनापेक्षया तदुद्दीपने बहुजीवविराधनायाः प्रतिपादनात् । यतो भगवत्यां"जे णं पुरिसे अगणिकायं निव्वावेइ, से णं पुरिसे अप्पकम्मतराए चेव"त्ति ।
अपिहितप्रदीपचुल्हकादिधारणचुल्लकाद्युपरिचन्द्रोदयाप्रदानाद्यपि तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा, तद्यतना प्रथमव्रते प्रागुक्तैव, एष च चतुर्विधोऽप्यनर्थदण्डोऽनर्थहेतुनिरर्थकश्च । तथाहि-अपध्यानेन न काचिदिष्टसिद्धिः, प्रत्युत चित्तोद्वेगवपुःक्षीणताशून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव । उक्तं च -
"अणवट्ठिअं मणो जस्स, झायइ बहुआई अट्टमट्टाई । तं चिंतिअं च न लहइ, संचिणइ अ पावकम्माइं ।।१।। वयकायविरहिआणवि, कम्माणं चित्तमित्तविहिआणं । अइघोरं होइ फलं, तंदुलमच्छुव्व जीवाणं ।।२।।".
अतोऽशक्यपरिहारं जात्वपध्यानं क्षणमात्रं स्यात्, तदापि सद्य एव परिहार्यं मनोनिग्रहयतनया, यदाह मनोनिग्रहभावनाकृत् - "साहूण सावगाण य, धम्मो जो कोइ वित्थरो भणिओ । सो मणनिग्गहसारो, जं फलसिद्धी तओ भणिआ ।।१।।". पापोपदेशहिंस्रप्रदाने च स्वजनादावन्यथा निर्वाहादर्शनात् दुःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव, तदुक्तं लौकिकैरपि