SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४५ धर्भसंग्रह भाग-3 |दितीय मधिकार | POS-32-33-3४ सचित्ताभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलम् । उक्तं च - "पुष्फफलाणं च रसं, सुराइ मंसाण महिलिआणं च । जाणंता जे विरया, ते दुक्करकारए वंदे ।।१।।" [] सचित्तेष्वपि नागवल्लीदलानि दुस्त्यजानि, शेषसचित्तानां प्रायः प्रासुकीभवनं स्वल्पकालमध्येऽपि दृश्यते एषु तु निरन्तरं जलक्लेदादिना सचित्तता सुस्थैव, कुन्थ्वादिविराधनापि भूयसी च, तत एव पापभीरुणा त्याज्यानि अन्यथाऽपि रात्रौ न व्यापार्याणि । रात्रिव्यापारणेऽपि दिवा संशोधनादियतनाया एव मुख्यता, ब्रह्मचारिणा तु कामाङ्गत्वात्त्याज्यान्येव, सचित्तभक्षणे दोषस्तु अनेकजीवविराधनारूपः, यतः प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादावसङ्ख्यजीवविराधनासंभवः । यदागमः"जं भणि पज्जत्तगनिस्साए वुक्कमंत अपजत्ता ।। जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता ।।१।।" [] बादरेष्वेकेन्द्रियेष्वेवमुक्तम्, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तस्तत्र तनिश्रया नियमादसङ्ख्याः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ प्रोक्तम् । एवमेकस्मिन्नपि पत्रादावसङ्ख्यजीवविराधना तदाश्रितजलनील्यादिसंभवे त्वनन्ता अपि । जललवणादि चासङ्ख्यजीवात्मकमेव, यदार्षम् - "एगंमि उदगबिंदुमि, जे जीवा जिणवरेहिं पण्णत्ता । ते जइ सरिसवमित्ता, जंबुद्दीवे न मायति ।।१।। अद्दामलगप्पमाणे, पुढविक्काए हवंति जे जीवा । ते पारेवयमित्ता, जंबुद्दीवे न मायति ।।२।।" [सम्बोधसत्तरि ९५-९४] सर्वसचित्तत्यागेऽम्बडपरिव्राजकसप्तशतशिष्यनिदर्शनम्, एवं सचित्तत्यागे यतनीयमिति प्रथमनियमः १। सचित्तविकृतिवर्जं यन्मुखे क्षिप्यते तत्सर्वं द्रव्यं, क्षिप्रचटीरोटिकानिर्विकृतिकमोदक-लपनश्रीपर्पटिकाचूरिमकरम्बकक्षरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामान्तराद्यापत्तेरेकैकमेव द्रव्यम् । एकधान्यनिष्पन्नान्यपि पूलिकास्थूलरोट्टकमण्डकखर्खरकघूघरीढोक्कलथूलीवाटकणिक्कादीनि पृथक् पृथक् नामास्वादवत्त्वेन पृथक् पृथक्द्रव्याणि, फलफलिकादौ तु नामैक्ये भिन्नभिन्नास्वादव्यक्तेः परिणामान्तराभावाच्च बहुद्रव्यत्वम्, अन्यथा वा सम्प्रदायादिवशाद् द्रव्याणि गणनीयानि, धातुमयशिलाकाकराऽगुल्यादिकं द्रव्यमध्ये न गणयन्ति २ । विकृतयो भक्ष्याः षट, दुग्ध १ दधि २ घृत ३ तैल ४ गुड ५ सर्वपक्वान्न ६ भेदात् ३ । 'वाणह'त्ति उपानद्युग्मं मोचकयुग्मं वा, काष्ठपादुकादि तु बहुजीवविराधनाहेतुत्वात्त्याज्यमेव श्रावकैः
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy