________________
४४
धर्मसंग्रह भाग-31द्वितीय मधिर | GPS-32-33-3४
यावत्तन्दुला न सिद्ध्यन्ति तावत्, एते त्रयोऽप्यादेशा अनादेशाः, रूक्षेतरभाण्डपवनाग्निसम्भवादिभिरेषु कालनियमस्याभावात्, ततोऽतिस्वच्छीभूतमेवाचित्तम् ।
“नीव्वोदगस्स गहणं, केई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं, ठिअवासे मीसगं छारो ।।२।।" [पिण्डनियुक्ति ३२]
नीव्रोदकं हि धूमधूम्रीकृतदिनकरकरसम्पर्कसोष्मनीव्रसम्पर्कादचित्तम्, अतस्तद्ग्रहणे न काचिद्विराधना, केचिदाहुःस्वभाजनेषु तद्ग्राह्यम्, अत्राचार्यः प्राह-अशुचित्वात्स्वपात्रेषु ग्रहणप्रतिषेधः, ततो गृहिभाजने कुण्डिकादौ ग्राह्यम्, वर्षति मेघे च तन्मिश्रम्, ततः स्थिते वर्षेऽन्तर्मुहूर्त्तादूर्ध्वं ग्राह्यम्, जलं हि केवलं प्रासुकीभूतमपि प्रहरत्रयादूर्ध्वं भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षेप्यः, एवं स्वच्छतापि स्याद्” इति पिण्डनियुक्तिवृत्तौ ।
तन्दुलधावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकृतानि मिश्राणि, चिरं तिष्ठन्ति त्वचित्तानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपि सचित्तानि प्रासुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्धारादौ"उसिणोदगं तिदंडुक्कालिअं फासुअजलं जईकप्पं । नवरि गिलाणाइकए, पहरतिगोवरिवि धरिअव्वं ।।१।। जायइ सचित्तया से, गिम्हासुं पहरपंचगस्सुवरिं । चउपहरुवरिं सिसिरे, वासासु जलं तिपहरुवरि ।।२।।" [८८१-२, विचारसारे २५७-८] तथाऽचेतनस्यापि कङ्कडुकमुद्गहरीतकी-कुलिकादेरविनष्टयोनिरक्षणार्थं निःशूकतादिपरिहारार्थं च न दन्तादिभिर्भज्यते, यदुक्तं श्रीओघनियुक्तिपञ्चसप्ततितमगाथावृत्तौ-“अचित्तानामपि केषाञ्चिद्वनस्पतीनामविनष्टा योनिः स्याद् गडूचीमुद्गादीनाम् । तथाहि-गुडुची शुष्काऽपि जलसेकात्तादात्म्यं भजन्ती दृश्यते एवं कङ्कडुकमुद्गादिरपि, अतो योनिरक्षणार्थमचेतनयतना न्यायवत्येवेति" [तुला-४१ तमगाथावृत्तिः, प. ३४]
एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमव्रतं नामग्राहं सचित्तादिसर्वभोग्यवस्तुनैयत्यकरणादिना स्वीकार्यम् यथाऽऽनन्द-कामदेवादिभिः स्वीकृतम्, तथाकरणाशक्तौ तु सामान्यतोऽपि सचित्तादिनियमाः कार्याः । ते चैवम् -
"सच्चित्त १ दव्व २ विगई ३, वाणह ४ तंबोल ५ वत्थ ६ कुसुमेसु ७ । वाहण ८ सयण ९ विलेवण १० बंभ ११ दिसि १२ ण्हाण १३ भत्तेसुं १४ ।।१।।" [सम्बोधप्र. श्रावक. ११]
तत्र मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं, तदशक्तौ नामग्राहम्, तथाऽप्यशक्तौ सामान्यत एकद्व्यादि नियम्यं, यतः-'निरवज्जाहारेण मिति पूर्वलिखिता गाथेति । परं प्रतिदिनैकसचित्ताभिग्रहिणो हि पृथक् पृथक् दिनेषु परावर्त्तनेन सर्वसचित्तग्रहणमपि स्यात्, तथा च न विशेषविरतिः, नामग्राहं