________________
૫
धर्भसंग्रह भाग-3 /द्वितीय अधिकार | RES-32-33-3४ ___ व्याख्या-सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सम्भवति, श्रीहेमसूरिरप्येवमेव-"आर्द्रः कन्दः समग्रोऽपि- [योगशास्त्रे ३/४४] आोऽशुष्कः कन्दः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न सम्भवतीति योगशास्त्रसूत्रवृत्त्योराह" [३/४४]
अथ तानेव कांश्चित्कन्दान् व्याप्रियमाणत्वानामत आह - सूरणकन्दः अर्शोघ्नः कन्दविशेषः १ । वज्रकन्दोऽपि कन्दविशेष एव २ । आर्द्राऽशुष्का हरिद्रा प्रतीतैव ३ । आर्द्रकं शृङ्गबेरम् ४ । आर्द्रकच्चूरस्तिक्तद्रव्यविशेषः प्रतीत एव ५ । शतावरी ६ । विरालिके वल्लीभदौ ७ । कुमारी मांसलप्रणालाकारपत्रा प्रतीतैव ८ । थोहरी स्नुहीतरुः ९ । गडूची वल्लीविशेषः प्रतीत एव १० । लशुनः कन्दविशेषः ११ । वंशकर(रि)ल्लानि कोमलाभिनववंशावयवविशेषाः प्रसिद्धा एव १२ । गर्जरकाणि सर्वजनविदितान्येव १३ । लवणको वनस्पतिविशेषो, येन दग्धेन सज्जिका निष्पद्यते १४ । लोढकः पद्मिनीकन्दः १५ । गिरिकर्णिका वल्लीविशेषः १६ । किसलयरूपाणि पत्राणि प्रौढपत्रादर्वाक् बीजस्योच्छूनावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि, न तु कानिचिदेव १७ । खरिंशुकाः कन्दभेदाः १८ । थेगोऽपि कन्दविशेष एव १९ । आर्द्रा मुस्ता प्रतीता २० । लवणापरपर्यायस्य भ्रमरनाम्नो वृक्षस्य छविस्त्वक् नत्वन्येऽवयवाः २१ । खिल्लहडो लोकप्रसिद्धः कन्दः २२ । अमृतवल्ली वल्लीविशेषः २३ । मूलको लोकप्रतीतः २४ । भूमिरुहाणि छत्रकाणि वर्षाकालभावीनि भूमिस्फोटकानीतिप्रसिद्धानि २५ । विरूढान्यङ्कुरितानि द्विदलधान्यानि २६ । ढङ्कवास्तुलः शाकविशेषः, स च प्रथमोद्गत एवानन्तकायिको न तु छिनप्ररूढः २७ । शूकरसंज्ञको वल्लः, स एवानन्तकायिको न तु धान्यवल्लः २८ । पल्यङ्क शाकभेदः २९ । कोमलाम्लिका अबद्धास्थिका चिञ्चिणिका ३० । आलुक ३१ पिण्डालुको ३२ कन्दभेदौ ।
एते पूर्वोक्ताः पदार्थाः द्वात्रिंशत्सङ्ख्या अनन्तकायनामभिर्भवन्तीत्यर्थः, न चैतावन्त्येवानन्तकायिकानि, किंत्वन्येऽपि । तथाहि-'अन्यदपि' पूर्वोक्तातिरिक्तमनन्तकायिकं 'लक्षणयुक्त्या' वक्ष्यमाणलक्षणविचारणया 'समयात्' सिद्धान्ततः, तान्येवानन्तकायानि यथा -
"घोसाडकरीरंकुरु, तिंडुअअइकोमलंबगाईणि ।। वरुणवडनिंबयाईण, अंकुराइं अणंताई ।।१।।" [प्रवचनसारोद्धारे गा. २४१] घोषातकीकरीरयोरङ्कुरास्तथाऽतिकोमलान्यबद्धास्थिकानि तिन्दुकाम्रफलादीनि तथा वरुणवटनिम्बादीनामङ्कुरा अनन्तकायिकाः । अनन्तकायलक्षणं चेदम् -