________________
१५
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | -32-33-3४
परेऽपि - "मद्ये मांसे मधुनि च, नवनीते चतुर्थके । उत्पद्यन्ते वीलीयन्ते, सुसूक्ष्मा जन्तुराशयः ।।१।।" इति । तत्र मद्यं मदिरा, तच्च द्विधा-काष्ठनिष्पन्नं पिष्टनिष्पन्नं चेति । एतच्च बहुदोषाश्रयान्महानर्थहेतुत्वाच्च त्याज्यम् । यदाह -
"गुरुमोहकलहनिद्दापरिभवउवहासरोसमयहेऊ । मज्जं दुग्गइमूलं, हिरिसिरिमइधम्मनासकरं ।।१।।" [सम्बोधप्र. श्रा. ७३] तथा - "रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं, हिंसापातकभीरुणा ।।२।। दत्तं न दत्तमात्तं च, नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा, स्वैरं वदति मद्यपः ।।३।। गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः । वधबन्धादिनिर्भीको, गृह्णात्याच्छिद्य मद्यपः ।।४।। बालिकां युवतिं वृद्धां, ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो, मद्योन्मादकदर्थितः ।।५।।” [योगशास्त्रवृत्तिः ३/१७] विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्वं, तृण्या वह्निकणादिव ।।६।। श्रूयते किल शाम्बेन, मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्वं, प्लोषिता च पुरी पितुः ।।७।।" १ ।
मांसं त्रेधा-जलचरस्थलचरखेचरजन्तूद्भवभेदाच्चर्मरुधिरमांसभेदाद्वा, तद्भक्षणमपि महापापमूलत्वाद्वर्ण्यम् । यदाहुः
"पंचिदिअवहभूअं, मंसं दुग्गंधमसुइबीभच्छं । रक्खपरितुलिअभक्खगमामयजणयं कुगइमूलं ।।१।। आमासु अ पक्कासु अ, विपच्चमाणासु मंसपेसीसुं । सययं चिअ उववाओ, भणिओ अ निगोअजीवाणं ।।२।।" [सम्बोधप्र. श्रा. ७४-५]