________________
धर्मसंग्रह भाग - 3 / द्वितीय अधिकार / श्लोड-पप
"न सरइ पमायजुत्तो, जो सामइअं कया य कायव्वं ? |
कयमकयं वा तस्स हु, कयंपि विहलं तयं नेयं ।। १ ।।” [ श्रावकप्रज्ञप्ति ३१६, सम्बोधप्रकरण ७ /११० ] ति चतुर्थः ४ ।
तथाऽनादरः-अनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणम्, यथाकथञ्चिद्वा करणम्, करणानन्तरमेव पारणं च यदाहु:
"काऊण तक्खणं चिअ पारेइ करेइ वा जहिच्छाए ।
अणवट्ठिअसामाइअ, अणायराओ न तं सुद्धं ॥ | १ || ” [ श्रावकप्रज्ञप्ति ३१७] ति पञ्चमोऽतिचारः ५ । अत्राह-कायदुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुनोऽभाव एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावेऽयं भवेत् ? अतो भङ्गा एवैते नातिचारा इति, उच्यते-अनाभोगतोऽतिचारत्वम् ।
ननु द्विविधं त्रिविधेनेति सावद्यप्रत्याख्यानं सामायिकम्, तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनिते (तं)च प्रायश्चित्तं विधेयं स्यात्, मनोदुष्प्रणिधानं चाशक्यपरिहारम्, मनसोऽनवस्थितत्वात्, अतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहुः–“अविधिकृताद्वरमकृतम्” [ ] इति । नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र च मनसा वाचा कायेन च सावद्यं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावात् मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतम्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, यदाह
“बीओ उ असमिओमित्ति कीस सहसा अगुत्तो वा ।" [] इति द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शुध्यतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति, किञ्च - सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति सूरयः । यदाह
“अभ्यासोऽपि प्रायः, प्रभूतजन्मानुगो भवति शुद्धः " [ ] इति ।
बाह्या अपि
-
"
-
-
'अविहिकया वरमकयं, उस्सुअ ( असूय) वयणं भांति समयण्णू ।
पायच्छित्तं जम्हा, अकए गुरुअं कए लहुअं ।। १ ।। " ( )
२५3
दधाति ।” [ ]
-
न चाविधिकृताद्वरमकृतमिति युक्तम्, असूयावचनत्वादस्य, यदाहुः .
“अभ्यासो हि कर्मणां कौशलमावहति, नहि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राणि निम्नतामा -