________________
धर्मसंग्रह भाग - 3 / द्वितीय अधिकार / श्लोड-४७
श्लोक :
मानस्य निश्चितस्योर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः । क्षेत्रवृद्धिः स्मृतिभ्रंशः, स्मृता आद्यगुणव्रते ।। ४९ ।।
૨૧૭
अन्वयार्थ :
निश्चितस्य मानस्य = निश्चित सेवा भावनुं, ऊर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः = अर्ध्व, अधो जने तिर्थ दृिशामां व्यतिभो, क्षेत्रवृद्धिः = क्षेत्रनी वृद्धि, स्मृतिभ्रंशः = स्मृतिनो भ्रंश, आद्यगुणव्रते स्मृता = प्रथम गुणप्रतना વિષયમાં અતિચારો કહેવાયા છે. ૪૯]
श्लोकार्थ :
નિશ્ર્ચિત એવા માનના ઊર્ધ્વ, અધો અને તિર્યક્=તિÁ દિશામાં વ્યતિક્રમો, ક્ષેત્રની વૃદ્ધિ, સ્મૃતિનો ભ્રંશ પ્રથમ ગુણવ્રતના વિષયમાં અતિચારો કહેવાયા છે. ।।૪૯।।
टीडा :
✓
ऊर्ध्वाधस्तिर्यक्षु निश्चितस्य मानस्य व्यतिक्रमाः क्षेत्रवृद्धिः स्मृतिभ्रंशश्चेति पञ्चातिचाराः 'आद्यगुणव्रते, दिग्विरमणाख्ये 'स्मृताः ' जिनैरित्यन्वयः, तत्र ऊर्ध्वं = पर्वतशिखरादौ, अधो= भूमिगृहादो, तिर्यक्=पूर्वादिदिक्षु, 'निश्चितस्य' नियमितस्य 'मानस्य' प्रमाणस्य 'मया योजनशतादि यावद्गमनादि विधेयं न परत' इत्येवंरूपस्य व्यतिक्रमा एते त्रयोऽतिचाराः । यत्सूत्रम्
“उड्ढदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरि अदिसिपमाणाइक्कमे" [उपासकदशाङ्गसूत्रे अ. १ सू. ७ प. ६ - ए, आवश्यकप्रत्याख्यान सू. ६ ] त्ति ।
एते चानाभोगाऽतिक्रमादिभिरेवातिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्गा एव, यस्तु न करोमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात्परतः स्वयं गमनतः परेण नयनाऽऽनयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात् परेण नयनाऽऽनयनयोर्न दोष इति ३ ।
तथा क्षेत्रस्य - पूर्वादिदेशस्य दिग्व्रतविषयस्य हस्वस्य सतो वृद्धिः -वर्द्धनं पश्चिमादिक्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिः, यथा किल केनापि पूर्वाऽपरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति चतुर्थः ४ ।