SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०० धर्मसंग्रह भाग-3/द्वितीय मधिर | Gोs-४५ इत्वरात्ता विस्पष्टपटुवत्समासः अथवा इत्वरकालमात्ता इत्वरात्ता मयूरव्यंसकादित्वात् समासः कालशब्दलोपश्च, अनात्ता च इत्वरात्ता चेति द्वन्द्वः, तयोर्गमः आसेवनम् । इयं चात्र भावना-अनात्तागमोऽनाभोगादिनाऽतिचारः, इत्वरात्तागमस्तु भाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाऽभङ्गरूपत्वादतिचारः २ । इमौ चातिचारौ स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेन अनात्तायाः त्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि इदं च हरिभद्रसूरिमतं, सूत्रानुपाति च । यदाहुः"सदारसंतोसस्स पंचइआरा जाणिअव्वा न समायरिअव्वा" । [उपासकदशाङ्गे अ. १. प. ५] अन्ये त्वाहुः-इत्वरात्तागमः स्वदारसन्तोषवतोऽतिचारः, तत्र भावना कृतैव, अनात्तागमस्तु परदारवर्जिनः, अनात्ता हि वेश्या, यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात्कथञ्चित्परदारत्वाच्च भङ्गत्वेन वेश्यात्वाच्चाभङ्गत्वेन भगा-भङ्गरूपोऽतिचारः इति द्वितीय-तृतीयौ २-३ । तथाऽनङ्गः-कामः, स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात्, योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एषोऽनङ्गः नान्यः कश्चित् तेन तस्मिन् वा क्रीडनं' रमणमनङ्गक्रीडनम्, यद्वा आहार्यः काष्ठ-पुस्त-फल-मृत्तिका-चर्मादिघटितप्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुथ्नाति, केशाकर्षण-प्रहारदान-दन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते । अथवा अङ्ग-देहावयवो मैथुनापेक्षया योनिमेंहनं च, तद्व्यतिरिक्तान्यनङ्गानिकुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति चतुर्थः ४ । तथा तीव्ररागः-अत्याग्रहः अर्थात् मैथुने परित्यक्तान्यसकलव्यापारस्य तदध्यवसायता, योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महतीं वेलां निश्चलो मृत ए(इ)वास्ते, चटक इव चटिकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुक्ते, 'अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमर्दी च पुरुषो भवतीति बुद्ध्येति पञ्चमः ५ । इह च श्रावको-ऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति, तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेण च यापनायां सम्भवत्यामनङ्गक्रीडनकामतीव्ररागावर्थतः प्रतिषिद्धौ, तत्सेवने च न कश्चिद्गुणः, प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ ।
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy