________________
૧૯
धर्मसंग्रह भाग-3 | द्वितीय मधिार | Pes-४५ मन्वयार्थ :
परवीवाहकरणं=५२विवाj ४२६1, अनात्तेवरात्तयोः गमवात सने पर मात सेवी स्त्रीतुं गमनस्त्री सेवन, अनङ्गक्रीडनंLLSAst, चसने, तीव्ररागः=ती , ब्रह्मणि-प्रातमi, स्मृताः तयारी ठेवाय छे. ॥४६॥ दोडार्थ :
પરવિવાહકરણ, અનાર અને ઈGરાત એવી સ્ત્રીનું સેવન, અનંગક્રીડા અને તીવ રાગ બહ્મચર્યવ્રતમાં અતિચારો કહેવાયા છે. II૪૬IL
s:___ परवीवाहकरणमनात्तागम इत्वरात्तागम अनङ्गक्रीडनं कामतीव्ररागश्चेति 'ब्रह्मणि' तुर्यव्रते पञ्चातिचाराः ।
तत्र परेषां-स्वस्वापत्यव्यतिरिक्तानां वीवाहकरणं-कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानम्, इदं च स्वदारसन्तोषवता स्वकलत्रात्परदारव केन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपनं भवति, तदा परवीवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तव्रती तु मन्यते-'विवाह एवायं मया विधीयते, न मैथुनं कार्यते', इति व्रतसापेक्षत्वादतिचार इति । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा सम्भवति ।
नन्वन्यविवाहनवत्स्वापत्यविवाहनेऽपि समान एव दोषः?, सत्यम्, यदि स्वकन्या न परिणाय्यते, तदा स्वच्छन्दकारिणी स्यात्, ततश्च शासनोपघातः स्यात्, विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात्, परेऽप्याहुः"पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्रास्तु स्थावरे भावे, न स्त्री स्वातन्त्र्यमर्हति ।।१।।" [मनुस्मृति ९/३]
यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावाद्रष्टव्यः, तथा चान्यस्यापि श्रावकस्यान्यचिन्तकसद्भावे तथैव न्याय्यः, अन्यचिन्ताकर्तीभावे तु यथानिर्वाहं विवाहसङ्ख्यानियमो युक्तः, अन्ये त्वाहुः-परस्य-कलत्रान्तरस्य सत्यपि सज्जकलत्रे विशिष्टसन्तोषाभावात्पुनः स्वयं विवाहनं परविवाहनम्, अयं स्वदारसन्तुष्टस्यातिचारः प्रथमः १ ।
तथा अनात्ता=अपरिगृहीता वेश्या, स्वैरिणी, प्रोषितभर्तृका, कुलाङ्गना वाऽनाथा, तथा इत्वरीप्रतिपुरुषमयनशीला वेश्येत्यर्थः सा चासावात्ता च कञ्चित्कालं भाटीप्रदानादिना सङ्ग्रहीता, पुंवद्भावे