SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ GU धर्मसंग्रह भाग-3 /द्वितीय मधिकार | PRTs-30 "उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम् ।।१।।" [धर्मबिन्दु ३/१८ टीका] इति । ततः, पोषधेषूपवासः पोषधोपवासः । आवश्यकवृत्तावित्थं व्याख्यातत्वात् । तथाहि "इह पोषधशब्दो रूढ्या पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व धर्मोपचयहेतुत्वादित्यर्थः । पोषधेषूपवसनं पोषधोपवासः नियमविशेषाभिधानं चेदमिति” [आवश्यकहारिभद्री वृत्तिः प. ८३५] __ इयं च व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्याहारादिचतुष्कवर्जनेषु, समवायागवृत्तौ श्रीअभयदेवसूरिभिरेवमेव व्याख्यातत्वात् । पौषधश्चाहार १शरीरसत्कार २ ब्रह्मचर्या ३-ऽव्यापार ४ भेदाच्चतुर्द्धा, एकैकोऽपि देशसर्वभेदाविधेत्यष्टथा, तत्राहारपोषधो-देशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् १ । शरीरसत्कारपोषधो देशतः शरीरसत्कारस्यैकतरस्याकरणम्, सर्वतस्तु सर्वस्यापि तस्याकरणम् २ । ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम्, सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनम् ३ । कुव्यापारपोषधस्तु-देशत एकतरस्य कस्यापि कुव्यापारस्याकरणम्, सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणम् ४ । इह च देशतः कुव्यापारनिषेधे सामायिकं करोति वा न वा, सर्वतस्तु कुव्यापारनिषेधे नियमात्करोति सामायिकम् अकरणे तु तत्फलेन वञ्च्यते, सर्वतः पोषधव्रतं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहतप्रहरणः प्रतिपद्यते, तत्र च कृते पठति, पुस्तकं वाचयति, धर्मध्यानं ध्यायति, यथा-एतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति आवश्यकचूर्णि, श्रावकप्रज्ञप्तिवृत्त्याद्युक्तो विधिः ।। योगशास्त्रवृत्तौ त्वयमधिकस्तथाहि-"यद्याहारशरीरसत्कारब्रह्मचर्यपोषधवत्कुव्यापारपोषधमप्यन्यत्रानाभोगेनेत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते, तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात्पोषधप्रत्याख्यानस्य, सूक्ष्मत्वाच्च सामायिकव्रतस्येति, तथा पोषधवताऽपि सावधव्यापारो न कार्य एव, ततः सामायिकमकुर्वंस्तल्लाभाद्मश्यतीति यदि पुनः सामाचारीविशेषात्सामायिकमिव द्विविधं त्रिविधेनेत्येवं पोषधं प्रतिपद्यते, तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत्, यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेत्यभिप्रायात्फलवदिति” [३/८५. प. ४८६-७] एतेषां चाहारादिपदानां चतुर्णा देशसर्वविशेषितानामेकद्व्यादिसंयोगजा अशीतिर्भङ्गा भवन्ति । तथाहि-एककसंयोगाः प्रागुक्ता एवाष्टौ ।
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy