________________
૮૨
धर्मशाह भाग-3 / द्वितीय अधिजार | Rels-39 यस्तु राजादिमहद्धिकः स गन्धसिन्धुरस्कन्धाधिरूढच्छत्रचामरादिराज्यालङ्करणालङ्कृतो हास्तिकाश्वीयपादातिकरथकट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमलः पौरजनैः सश्रद्धमगुल्योपदय॑मानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञ्जलिबन्धान् लाजाञ्जलिपातान् शिरःप्रणामाननुमोदमानः 'अहो धन्यो धर्मो य एवंविधैरुपसेव्यते' इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरोपानन्मुकुटखड्गरूपाणि परिहरति, आवश्यकचूर्णी तु -
“मउडं न अवणेइ, कुंडलाणि णाममुदं पुप्फतम्बोलपावारगमादि वोसिरइत्ति" [प. ३००] भणितम्, जिनार्चनं साधुवन्दनं वा करोति यदि त्वसौ कृतसामायिक एव गच्छेत्तदा गजाऽश्वादिभिरधिकरणं स्यात्, तच्च न युज्यते कर्तुम्, तथा (कृत) सामायिकेन पादाभ्यामेव गन्तव्यम्, तच्चानुचितं भूपतीनाम्, आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्थानादि करोति, अथ यथाभद्रकस्तदा पूजा कृताऽस्तु इति पूर्वमेवासनं मुञ्चति, आचार्याश्च पूर्वमेवोत्थिता आसते, मा उत्थानाऽनुत्थानकृता दोषा भूवन्निति, आगतश्चासौ सामायिकं करोतीति पूर्ववत्, एतद्वतफलं च बहुनिर्जरारूपम्, अन्यदपि च, यदाहुः - "दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडिअं एगो । इअरो पुण सामइअं, करेइ न पहुप्पए तस्स ।।१।। सामाइअं कुणंतो, समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधइ, इत्तिअमित्ताइं पलिआई ।।२।। बाणवइकोडीओ, लक्खा गुणसट्ठि सहस पणवीसं । नवसयपणवीसाए, सतिहा अडभागपलिअस्स ।।३।।" [सम्बोधप्र. श्रा. ११३-५] अङ्कतोऽपि ९२५९२५९२५ ८/९+१/३ । “तिव्वतवं तवमाणो, जं नवि निट्ठवइ जम्मकोडीहिं । तं समभाविअचित्तो, खवेइ कम्मं खणद्धेणं ।।४।। जे केऽवि गया मोक्खं, जेऽविअ गच्छंति जे गमिस्संति । ते सव्वे सामाइअमाहप्पेणं मुणेअव्वा ।।५।।" [सम्बोधप्र. श्रा ११६-७] "हूयते न तप्यते न, दीयते वा न किञ्चन । अहो अमूल्यक्रीतीयं, साम्यमात्रेण निर्वृतिः ।।६।।" ।।३७।।