________________
૧૬૪
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૨ कुर्वन् गुरुशुश्रूषको भवतीति । यद्यपि गुरवो मातृपित्रादयोऽपि भण्यन्ते तथाऽप्यत्र धर्माधिकाराद्धर्माचार्यादय एव प्रस्तुता इति हाईम् ।
अथ प्रवचनकुशल इति षष्ठं भावश्रावकलक्षणं चेत्थम् - "सुत्ते १ अत्थे अ २ तहा, उस्सग्ग ३ ववाय ४ भाव ५ ववहारे ६ । जो कुसलत्तं पत्तो, पवयणकुसलो तओ छद्धा ।।९।।" [गा. ५२] सूत्रे सूत्रविषये यः कुशलत्वम्, प्राप्त इति प्रत्येकं योजनीयम्, श्रावकपर्यायोचितसूत्राध्येतेत्यर्थः १। तथाऽर्थे सूत्राभिधेये संविग्नगीतार्थसमीपे सूत्रार्थश्रवणेन कुशलत्वं प्राप्त इत्यर्थः २ । उत्सर्गे सामान्योक्तौ ३ अपवादे विशेषभणिते कुशलः, अयं भावः-केवलं नोत्सर्गमेवावलम्बते, नापि केवलमपवादम्, किन्तूभयमपि यथायोगमालम्बत इत्यर्थः ४, भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः ।
इदमुक्तं भवति-विधिकारिणमन्यं बहु मन्यते, स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्त्तते, सामग्र्या अभावे पुनर्विध्याराधनमनोरथान मुञ्चत्येवेति ५ । व्यवहारे गीतार्थाचरितरूपे कुशलः देशकालाद्यपेक्षयोत्सर्गापवादवेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाचरितं व्यवहारं न दूषयतीतिभावः६। "एसो पवयणकुसलो, छब्भेओ मुणिवरेहिं निद्दिवो । किरियागयाइं छव्विह-लिंगाई भावसड्डस्स ।।१०।।" [गा. ५५] एतानि भावश्रावकस्य क्रियोपलक्षणानि षडेव लिङ्गानि । अथ भावगतानि तान्याह"भावगयाइं सतरस, मुणिणो एअस्स बिंति लिंगाइं । जाणिअजिणमयसारा, पुव्वायरिआ जओ आहु ।।११।। इत्थिं १, दिअत्थसंसार ४ विसय ५ आरंभ ६ गेह ७ दंसणओ ८ । गड्डरिगाइपवाहे ९, पुरस्सरं आगमपवित्ती १०।।१२।। दाणाइ जहासत्ती, पवत्तणं ११ विहि १२ अरत्तदुढे अ १३ । मज्झत्थ १४ मसंबद्धो १५, परत्थकामोवभागी अ १६ ।।१३।। वेसा इव गिहवासं, पालइ १७ सत्तरसपयनिबद्धं तु । भावगयभावसावगलक्खणमेअं समासेणं ।।१४।।" [गा. ५६-९]
आसां काचिद्व्याख्या-स्त्रियादिदर्शनान्तपदाष्टकानां द्वन्द्वे सप्तम्यर्थे तसिल । अयं भावःस्त्रीवशवर्ती न भवेत् १ । इन्द्रियाणि विषयेभ्यो निरुणद्धि २ । नानर्थमूलेऽर्थे लुभ्यति ३ । संसारे