________________
२२ .
धर्मसंग्रह भाग-१ / प्रथम मधिलार | Rels-५ थी १४ तत्र स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायस्तेनार्जितं संपादितं धनम्, अयमेव धर्मः, न्यायार्जितं हि धनम् अशङ्कनीयतया स्वशरीरेण तत्फलभोगामित्रस्वजनादौ संविभागकरणाच्चेहलोकहिताय यदाह - “सर्वत्र शुचयो धीराः, स्वकर्मबलगर्विताः । स्वकर्मनिन्दितात्मानः, पापाः सर्वत्र शङ्किताः ।।१।।".
सत्पात्रेषु विनियोगात् दीनादौ कृपया वितरणाच्च परलोकहिताय, पठ्यते च धार्मिकस्य धनस्य शास्त्रान्तरे दानस्थानम् यथा - "पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्ध स्वतश्च यत् ।।१।।” [योगबिन्दुः गा. १२१]
अन्यायोपात्तं तु लोकद्वयेऽप्यहितायैव, इहलोके विरुद्धकारिणो वधबन्धादयो दोषाः, परलोके नरकादिगमनादयः । यद्यपि कस्यचित्पापानुबन्धिपुण्यानुभावादिहलोकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यंभाविन्येव, यतः"पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति" ।। इति न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् यदाह"निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति, विवशाः सर्वसम्पदः ।।१।।" ईदृशं धनं च गार्हस्थ्ये प्रधानकारणत्वेन धर्मतयाऽऽदौ निर्दिष्टम्, अन्यथा तदभावे निर्वाहविच्छेदेन गृहस्थस्य सर्वश्रुतक्रियोपरमप्रसङ्गादधर्म एव स्यात् । पठ्यते च. “वित्तीवोच्छेयम्मि य, गिहिणो सीयंति सव्वकिरियाउ ।
निरवेक्खस्स उ जुत्तो, संपुनो संजमो खेल १।।" [पञ्चाशक ४७] त्ति १॥ टीमार्थ :__'तत्र' ..... चेव त्ति १॥त्यi=34 माटे Gustd (प्रारंभ) शिक्षा सामान्य-विशेष३५ स्थधमां, સામાન્યથી ગૃહસ્થ ધર્મ આ પ્રકારે શ્લોક ૧૪ સુધી વર્ણન કર્યું એ પ્રકારે, હિતકારી વડે=પરોપકાર કરવાના સ્વભાવવાળા એવા તીર્થંકર વડે, પ્રરૂપણા કરાયેલ છે એની સાથે સંબંધ છે. શ્લોક-પનો Als-१४अथ साथे संबध . सनेमा प्रमाए - व्यायाधिन' त्या.