________________
૧૬૮
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯ तस्य गर्दाऽसदाचारगर्दा, यथा"न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः ।।१।। द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ।।२।। वरं ज्वालाऽऽकुले क्षिप्तो, देहिनात्मा हुताशने । न तु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन ।।३।।" इति तत्त्वाश्रद्धानगर्दा, एवं हिंसादिष्वपि गर्हायोजना कार्या । तथा “तत्स्वरूपकथनमिति" [सू० ७८] तस्याऽसदाचारस्य हिंसादेः स्वरूपकथनम्, यथा-"प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा" । [तत्त्वार्थं सू. ७।८] "असदभिधानं मृषा" । “अदत्तादानं स्तेयम्" । “मैथुनमब्रह्म" । “मूर्छा परिग्रहः” [तत्त्वार्थ सूत्र ७।१०-१२] इत्यादि । तथा “स्वयं परिहार इति" [सू० ७९]
स्वयमाचारकथकेन परिहारोऽसदाचारस्य संपादनीयः, यतः स्वयमसदाचारमपरिहरतो धर्मकथनं नटवैराग्यकथनमिवानादेयमेव स्यान्न तु साध्यसिद्धिकरमिति । तथा “ऋजुभावाऽऽसेवनमिति” [सू० ८०] ऋजुभावस्य कौटिल्यत्यागरूपस्यासेवनमनुष्ठानं देशकेनैव कार्यम् । एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते: सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति । तथा “अपायहेतुत्वदेशनेति" [सू० ८१]
अपायानामनर्थानाम् इहलोकपरलोकगोचराणां हेतुत्वं प्रस्तावादसदाचारस्य यो हेतुभावस्तस्य देशना विधेया. यथा
“यन्न प्रयान्ति पुरुषाः, स्वर्गं यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं में" ।।३।।
प्रमादश्चासदाचार इति । टीमार्थ :
अत्रैव ..... सदाचार इति । आमां ०४-पूर्वमा धुं योग्य श्रोत पासथी इसनी प्र३५॥ १२वी नसते ફલના વિષયમાં જ, વિશેષને કહે છે -