________________
ધર્મસંગ્રહ ભાગ-૧ / પ્રથમ અધિકાર | શ્લોક-૧૯
૧૫૩
दृष्टेष्टाविरुद्धत्वाच्च नायं परिकल्पनागोचरः ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते, अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इत्येवं शेषपदेष्वपि भावना कार्या ।
तथा निष्काङ्क्षितो देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा - एकं दर्शनं काङ्क्षते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति ।
विचिकित्सा=मतिविभ्रमो, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः । साध्वेवं जिनदर्शनम्, किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति वा न वा ?, कृषिबलादिक्रियासूभयथाप्युपलब्धेरितिकुविकल्परहितः, नह्यविकल उपाय उपेयवस्तुपरिप्रापको न भवतीति संजातनिश्चय इत्यर्थः, यद्वा निर्विजुगुप्सो जुगुप्सारहितः ।
तथा अमूढदृष्टिः, बालतपस्वितपोविद्याद्यतिशयैर्न मूढा स्वभावान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासौ अमुढदृष्टिः, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः । अधुना गुणप्रधानः- उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम्, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनम्, वात्सल्यं समानधार्मिकजनोपकारकरणम्, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति । गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिद्भेदख्यापनार्थम्, एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यताऽऽपत्तिरिति ।
`चारित्राचारोऽष्टधा पञ्चसमितित्रिगुप्तिभेदात्तत्स्वरूपं च प्रतीतमेव ।
तपआचारस्तु द्वादशविधः, बाह्या - ऽभ्यन्तरतपः षट्कद्वयभेदात्, तत्र
“अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ।।१।।
प्रायश्चित्तं ध्यानं, वैयावृत्त्यविनयावथोत्सर्गः ।
स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ।। २ ।। [प्रशमरतौ का० १७५-६]
वीर्याचारः पुनरनिह्नुतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तषट्त्रिंशद्विधे ज्ञान- दर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणम्, प्रतिपत्तौ च यथाबलं पालनेति ।
टीडार्थ :
तथा पालनेति । जने 'आक्षेपाएगीनो प्रयोग उरे' (सू. १८) =
ધર્મકથાકાલમાં આક્ષેપણી કથાનો વ્યાપાર કરે. આક્ષેપણી શબ્દની વ્યુત્પત્તિ બતાવે છે. મોહથી ભવ્યપ્રાણીઓ તત્ત્વ પ્રત્યે આક્ષેપને પામે છે આના વડે એ આક્ષેપણીકથા છે. અને આચાર-વ્યવહાર-પ્રજ્ઞપ્તિ અને દૃષ્ટિવાદના ભેદથી તે આક્ષેપણીકથા ચાર પ્રકારની છે. ત્યાં=ચાર પ્રકારની કથામાં, આચાર લોચ, અસ્નાનાદિ સુંદર ક્રિયારૂપ છે. વ્યવહાર કોઈક રીતે પ્રાપ્ત કરેલા દોષના નાશ માટે પ્રાયશ્ચિત્તરૂપ છે. પ્રજ્ઞપ્તિ સંશયને પામેલા એવા જીવને મધુર વચન વડે પ્રજ્ઞાપનરૂપ છે. અને દૃષ્ટિવાદ શ્રોતાની અપેક્ષાએ સૂક્ષ્મજીવાદિભાવના કથનરૂપ છે.