________________
૧૫૨
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | ોક-૧૯
तथा “ज्ञानाद्याचारकथनमिति" [सू० ६९]
ज्ञानस्य-श्रुतलक्षणस्य आचारो ज्ञानाचारः, आदिशब्दाद्दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां कथनं प्रज्ञापनमिति समासः । तत्र ज्ञानाचारोऽष्टधा कालविनयबहुमानोपधानाऽनिह्नवव्यञ्जनाऽर्थतदुभयभेदलक्षणः । ___ तत्र काल इति यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्मिन्नेव तस्य स्वाध्यायः कर्त्तव्यो नान्यदा, तीर्थकरवचनाद्, दृष्टं च कृष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति । तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयो ह्यभ्युत्थानपादधावनादिः-अविनयगृहीतं हि तदफलं भवति । तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सति अक्षेपेणाविकलं श्रुतं भवति । अत्र च विनयबहुमानयोश्चतुर्भङ्गी भवति, एकस्य विनयो न बहुमानः, अपरस्य बहुमानो न विनयः, अन्यस्य विनयोऽपि बहुमानोऽपि, अन्यतरस्य न विनयो नापि बहुमान इति । तथा श्रुतग्रहणमभीप्सतोपधानं कार्यम्, उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्यम्, तत्पूर्वं श्रुतग्रहणस्यैव फलवत्त्वात् । “अनिह्नव इति" गृहीतश्रुतेनानिह्नवः, कार्यः, यद्यत्सकाशेऽधीतं तत्र स एव कथनीयो नान्यश्चित्तकालुष्याऽऽपत्तेरिति ।
तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा "धम्मो मंगलमुक्किटुं" [दशवै० ११] इति वक्तव्ये "पुण्णं कल्लाणमुक्कोस"मित्याह । अर्थभेदस्तु यथा "आवंति केआवंति लोगंसि विप्परामुसंति" [आचारङ्ग सू. ५।१] (श्रुतस्कंध १, अध्य. ५, सू. १४१) इत्यत्राचारसूत्रे यावन्तः केचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्तीत्यर्थाभिधाने, अवन्तिजनपदे केयावंती रज्जुवन्ताः लोकः परामृशति कूपे इत्याह । उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दै यथा-धर्मो मंगलमुत्कृष्टः; : अहिंसा पर्वतमस्तके इत्यादि । दोषश्चात्र व्यञ्जनभेदादर्थभेदः, तद्भेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः; तदभावे च निरर्थका दीक्षेति ।
दर्शनाचारोऽपि निःशङ्कितनिष्काङ्क्षितनिर्विचिकित्साऽमूढदृष्टिउपबृंहास्थिरीकरणवात्सल्यतीर्थप्रभावनाभेदा- . दष्टधैव । तत्र “निःशङ्कित इति" शङ्कनं शङ्कितम्, निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः, देशसर्वशङ्कारहित इत्यर्थः । तत्र देशशङ्का-समाने जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यतीति । न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयोऽस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति । प्राकृतनिबन्धोऽपि बालादिसंधारण इति उक्तं च - "बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ।।१।।