________________
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૬ "जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ।।२३।। उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ।। २५ ।। आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ।।२६।। भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।।२७।।
लेखनापूजनादानं, श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चितना भावनेति च ।।२८।।
दुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च ।
औचित्यात्सेवनं चैव, सर्वत्रैवाविशेषतः ।। ३२ ।। ” [योगदृष्टि० गा. २३, २५, २६, २७, २८, ३२]
65
इति ।
'तस्मिन् ' पूर्वोक्तगुणभाजने 'गेहिनि' गृहस्थे 'प्ररोहन्ति' प्रकर्षेण = स्वफलावन्ध्यकारणत्वेन, रोहन्ति धर्मचिन्तादिलक्षणाङ्कुरादिमन्ति जायन्ते उक्तं च
“वपनं धर्मबीजस्य, सत्प्रशंसादि तद्गतम् ।
तच्चिन्ताद्यङ्कुरादि स्यात्, फलसिद्धिस्तु निर्वृतिः ।। १ ।।
चिन्तासच्छ्रुत्यनुष्ठानदेवमानुषसम्पदः ।
क्रमेणाङ्कुरसत्काण्डनालपुष्पसमा मताः ।।२।।”
कीदृशानि सन्ति प्ररोहन्तीत्याह - ' विधिना' देशनार्हबालादिपुरुषौचित्यलक्षणेन 'उप्तानि ' निक्षिप्तानि, अनिक्षिप्तेषु हि तेषु कथमपि धर्मस्यानुदयात् यत उपदेशपदे -
-
"अकए बीजक्खेवे, जहा सुवासेवि न भवई सस्सं ।
तह धम्मबीजविरहे, न सुस्समाएवि तस्सस्सं । ।" [गा. २२४] ति ।
यथेति दृष्टान्तार्थः 'बीजानि' शाल्यादीनि 'विशुद्धायाम्' अनुपहतायां 'भुवि' पृथिव्यां विधिनोप्तानि सन्ति, प्रायोग्रहणादकस्मादेव पक्वतथाभव्यत्वे क्वचिन्मरुदेव्यादावन्यथाभावेऽपि न विरोध इति ।।१६।।