________________
39
भाधारस्थ 15२ भाग-२/रत5-3/गाथा-५५-५७ मिश्रिता, तह-तथा, अणंतमीसिया सतमिश्रिता, परित्त=प्रत्येs=प्रत्येऽमिश्रिता, अद्धा=ALAL मिश्रिता, यसने, अद्धद्धा-साधासदासदामिश्रिता. ॥५७।।
* खलु श०६ पाहपूर्ति अर्थ ७. गाथार्थ :
જે ભાષામાં અર્થ અંશમાં દેશમાં, વિપરીત છે વળી તથારૂપ છે અન્ય અંશમાં તથારૂપ છે, તે સત્યામૃષા=અંશથી સત્યા અને અંશથી મૃષા એ રૂપ સત્યામૃષા, મિશ્ર શ્રતમાં પરિભાષિત છે. તે દશ પ્રકારની છે-સત્યામૃષાભાષા દશ પ્રકારની છે. પિકIL.
ઉત્પન્નઃઉત્પન્નમિશ્રિતા, વિગત વિગતમિશ્રિતા, મિશ્રક ઉત્પન્નવિગતમિશ્રિતા, જીવ-જીવમિશ્રિતા, અજીવ અજીવમિશ્રિતા અને જીવાજીવ-જીવાજીવમિશ્રિતા, તથા અનંતમિશ્રિતા, પ્રત્યેકપ્રત્યેકમિશ્રિતા, અદ્ધા=અદ્ધામિશ્રિતા, અને અદ્ધાદ્ધા અદ્ધાઅદ્ધામિશ્રિતા. પછી टी :
यस्या भाषायाः, अर्थः विषयः, अंशे-देशे, विपरीतः बांधितसंसर्गो भवति, तथा पुनः, तथारूप:=अबाधितसंसर्गो भवति, तच्छब्दस्य यच्छब्देनाऽऽक्षेपात् सा सत्यामृषा श्रुते मिश्रेति परिभाषिता, सत्यत्वेन स्वरूपत आराधकत्वात्, असत्यत्वेन स्वरूपतो विराधकत्वात्, युगपत्फलद्वयानुत्पत्तेस्तु कारणान्तरविरहप्रयोज्यत्वादिति दिग् ।
सा च दशधा, उत्पन्नमिश्रिता, विगतमिश्रिता, उत्पन्नविगतमिश्रिता, जीवमिश्रिता, अजीवमिश्रिता, जीवाजीवमिश्रिता, अनन्तमिश्रिता, प्रत्येकमिश्रिता, अद्धामिश्रिता, अद्धाऽद्धामिश्रिता चेति ।
ननु शतरूप्यकेषु देयेषु पञ्चाशत्सु दत्तेषु ‘शतं दत्ता' इत्यादीनां, धवखदिराशोकद्रुमसमूहे चाऽशोकवनमित्याद्यानां भाषाणां क्वान्तर्भावः ? उत्पत्तिजीवादिमिश्रितादिनिदर्शनस्याऽतत्त्वादिति चेत् ? सत्यम्, उत्पत्तिजीवादीनां क्रियान्तरवस्त्वन्तराद्युपलक्षणत्वात्, विशेषस्यैव वा विभागाश्रयणात् ।
एतेन ज्ञाने यथाऽतस्मिंस्तदवगाहित्वरूपं भ्रमत्वं तद्वति तदवगाहित्वरूपं प्रमात्वं चैकत्रैव, 'इदं रजतं' इति ज्ञानस्य धन॑शे प्रमात्वाद्रजतांशे च भ्रमत्वात्, एवं अघटवत्यपि भूतले 'भूतलं घटवदिति भाषाया भूतलांशे प्रमाजनकत्वात् घटांशे च भ्रमजनकत्वात् सत्यामृषात्वं इत्युक्तावपि न क्षतिः ।
वस्तुतस्तु एवं सत्यो (? सति) मृषाभेदोच्छेदापत्तिः, सर्वस्या अप्यसत्याया अंशे सत्यत्वात् सर्वं ज्ञानं धर्मिण्यभ्रान्तं इति न्यायाद् धयंशे प्रमाजनकत्वात्, तस्माद्धयंशविनिर्मोकेन परिस्थूरभ्रमप्रमाजनकत्वमादायैवैतभेदातिरेक इति ध्येयम् ।