________________
भाषा रहस्य प्र२ भाग-१ / स्तजड - १ / गाथा - 3
ईराता भाषाद्रव्यना विषयभां, दव्वाइचउविसेसो द्रव्याहि यारनो विशेष द्रव्याहि थारनो लेह, जहाजोगं= यथायोग्य = यथासंभव णायव्वो भगवो. ॥3॥
गाथार्थ :
જીવ સ્થિત એવાં ભાષાદ્રવ્યોને ગ્રહણ કરે છે અને અસ્થિત ભાષાદ્રવ્યોને ગમનપરિણામવાળાં ભાષાદ્રવ્યોને, ગ્રહણ કરતો નથી. વળી ગ્રહણ કરાતા ભાષાદ્રવ્યના વિષયમાં દ્રવ્યાદિ ચારનો विशेष = द्रव्याहि यारनो लेह, यथायोग्य = यथासंभव भएरावो ॥3॥
93
टीडा :
अथ यानि स्थितानि गृह्णाति तानि द्रव्यतः किमेकप्रदेशकानि यावदनन्तप्रदेशकानि वा ? क्षेत्रतश्चैकप्रदेशावगाढानि यावदसंख्येयप्रदेशावगाढानि वा ? कालतश्चैकसमयस्थितिकानि यावदसङ्ख्येयसमयस्थितिकानि वा ? भावतश्च वर्णवन्ति, गन्धवन्ति, रसवन्ति, स्पर्शवन्ति वा ? इति जिज्ञासायामाह - द्रव्यादिचतुर्विशेषः पुनर्यथायोगं सूत्रोक्तनीत्या यथासंभवं ज्ञातव्यः । तथाहि - द्रव्यतस्तावदनन्तप्रदेशकान्येव गृह्णाति नैकपरमाण्वाद्यात्मकानि स्वभावत एव तेषां ग्रहणायोग्यत्वात् क्षेत्रतस्त्वसङ्ख्येयप्रदेशावगाढान्येव, एकप्रदेशाद्यवगाढानां ग्रहणायोग्यत्वात् कालतस्त्वेकसमयस्थितिकान्यपि यावदसङ्ख्येयसमयस्थितिकान्यपि, पुद्गलानामसङ्ख्येयमपि कालं यावदवस्थानसम्भवात् ।
‘निरेए जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं' इति व्याख्याप्रज्ञप्तिवचनात् ।
एकसमयस्थितिकत्वं च ग्रहणानन्तरमेव निसर्गे, ग्रहणसमय एवावस्थानात् प्रतिपत्तव्यम् । एकप्रयत्नगृहीतानामप्यादिभाषापरिणामस्थितिवैषम्यादेकसमयस्थितिकान्यपीत्यन्ये, भावतस्तु वर्णवन्त्यपि यावत्स्पर्शवन्त्यपि वर्णगन्धरससङ्ख्यामाश्रित्य तु समुदायविवक्षायां नियमात् पञ्चद्विपञ्चवर्णगन्धरसवन्त्येव, ग्रहणद्रव्याण्याश्रित्य तु कानिचिदेकद्वयादितद्वन्त्यपीत्यूहनीयम् कालादिन्यप्येकगुणकालादीनि यावदनन्तगुणकालादीन्यपीति द्रष्टव्यम् स्पर्शसङ्ख्यामाश्रित्य च ग्रहणद्रव्याणि प्रतीत्य कानिचिद् द्विस्पर्शवन्ति न त्वेकस्पर्शवन्ति, एकस्यापि परमाणोरवश्यं स्पर्शद्वयसद्भावात् । द्वौ च स्पर्शी मृदुशीत मृदूष्णो वा कानिचित् त्रिस्पर्शान्यपि, त्रिस्पर्शत्वं कानिचिन्मृदुशीतस्पर्शानि कानिचिन्मृदुस्निग्धस्पर्शानीत्यादिदिशा मृदुस्पर्शावयवानां स्पर्शान्तरयोगे समुदायमधिकृत्य भावनीयम्, कानिचिच्चतुःस्पर्शान्यपि, समुदायमधिकृत्य तु चतुःस्पर्शान्येव, तत्र चतुःस्पर्शेषु द्वौ मृदुलघुरूपाववस्थित, स्पर्शो अन्यौ तु द्वौ स्निग्धोष्णौ स्निग्धशीतौ, रूक्षोष्णी रूक्षशीतौ चेति ।
अत्र चावस्थितयोः स्पर्शयोरव्यभिचरितत्वेनाऽविवक्षणाद्वैकल्पिकस्पर्शमाश्रित्य चतुःस्पर्शवन्तीति