________________
तस्वार्थवार्तिके
[८११ यदुदयात् स्वयंकृतोद्वन्धनाथुपघातस्तदुपघातनाम ॥१३॥ यस्योदयात् स्वयंकृतोद्वन्धनमरुप्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम ।
यनिमित्तः परशस्त्राद्याघातस्तत्परघातनाम ।१४। परशब्दोऽन्यपर्यायवाची, फलकाद्यावरणसन्निधानेऽपि यस्योदयात् परप्रयुक्तशस्त्राद्याघातो भवति तत्परघातनाम ।
__ यदुदयानिवृत्तमातपनं तदातप'नाम ॥१५॥ आतपति येन आतपनम् आतपतीति वातपः, तस्य निर्वर्तकं कर्म आतपनाम । तदादित्ये वर्तते ।
- यन्निमित्तमुद्योतनं तदुद्योतनाम ।१६। उद्योत्यते येन उद्योतनं वोद्योतः, तन्निमित्तं कर्म उद्योतनाम । तञ्चन्द्रखद्योतादिषु वर्तते ।
यद्धतुरुच्छासस्तदुच्छासनाम ।१७। उच्छृसनमुच्छासः प्राणापानकर्म, तद्यद्धेतुकं १० तदुच्छासनाम ।
विहाय आकाशं तत्र गतिनिर्वर्तकं विहायोगतिनाम ।१८। विहाय आकाशम , तत्र गतिनिर्वर्तकं विहायोगतिनाम । तद्विविधम्-प्रशस्ताऽप्रशस्तविकल्पात् । वरवृपभद्विरदादिप्रशस्तगतिकारणं प्रशस्तविहायोगतिनाम । उष्ट्रखराद्यप्रशस्तगतिनिमित्तमप्रशस्तविहायोगतिनाम चेति । सिद्ध्यजीवपुद्गलानां विहायोगतिः कुत इति चेत् ? सा स्वाभाविकी । ननु च विहायोगतिनाम१५ कर्मोदयः पक्ष्यादिष्वेव प्राप्नोति न मनुष्यादिपु । कुतः ? विहायसि गत्यभावात् ; नैष दोषः; सर्वेषां विहायस्येव गतिरवगाहनशक्तियोगात् ।
एकात्मीपभोगकारणशरीरता यतस्तत्प्रत्येकशरीरनाम ।१६। शरीरनामकर्मोदयात् निर्वयमानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येकशरीरनामकर्म । एकमेकमात्मानं प्रति प्रत्येकम् , प्रत्येकं शरीरं प्रत्येकशरीरम् ।
यतो वह्वात्मसाधारणोपभोगशरीरं तत्साधारणशरीरनाम ।२०। बहूनामात्मनामुपभोगहेतुत्वेन साधारणं शरीरं यतो भवति तत्साधारणशरीरनाम । तदुदयवर्तिनो जीवाः कीदृशा इति चेत् ? उच्यते-साधारणाऽऽहारादिपर्याप्तिचतुष्टयजन्ममरणप्राणापानानुग्रहोपघाताः साधारणजीवाः । यदैकस्याहारशरीरेन्द्रियप्राणापानपर्याप्तिनिवृत्तिस्तदैवानन्तानामाहारादिपर्याप्तिनिवृत्तिः।
यदैको जायते तदैवानन्ता जायन्ते । यदैको म्रियते तदैवानन्तानां मरणम् । यदैकस्य प्राणापान२५ ग्रहणविसर्गों तदैवानन्ताः प्राणापानग्रहणविसर्गों कुर्वन्ति । यदैक आहारादिनाऽनुगृह्यते तदैवानन्ताः तेनाहारेणानुगृह्यन्ते । यदैकोऽग्निविषादिनोपहन्यते तदैवानन्तानामुपघातः ।
यदुदयाद् द्वीन्द्रियादिषु जन्म तत्त्रसनाम ।२१। यस्योदयाद् द्वीन्द्रियादिषु प्राणिषु जङ्गमेषु जन्म लभते तत् त्रसनाम ।
यन्निमित्त एकेन्द्रियेषु प्रादुर्भावः तत् स्थावरनाम ।२२। एकेन्द्रियेषु पृथिव्यप्तेजोवायुवन३० स्पतिकायेषु प्रादुर्भावो यन्निमित्तो भवति तत् स्थावरनाम ।
यदुदयादन्यप्रीतिप्रभवस्तत्सुभगनाम ।२३। येदुदयात् रूपवानरूपो वा अन्येषां प्रीति जनयति तत् सुभगनाम । ___यदुदयात् रूपादिगुणोपेतोऽपि अप्रीतिकरस्तदुर्भगनाम ।२४। रूपादिगुणोपेतोऽपि सन् यस्योदयात् परेषामप्रीतिहेतुर्भवति तद् दुर्भगनाम ।
पर्वत । २-तपननाम मु० । ३-सानां जन्म-मु०, द०, ३० । ४ यदैवैको मु०। ५ विल्पाकृतिरपि सन् यदुदयात् परेषां प्रीतिहेतुर्भवति तत् मु० ।