________________
८।११]
अष्टमोऽध्यायः धस्तावाल्पीयसो जनकं न्यग्रोधपरिमण्डलसंस्थाननाम, न्यग्रोधाकारसमताप्रापितान्वर्थम्' । तद्विपरीतसन्निवेशकरं स्वातिसंस्थाननाम वल्मीकतुल्याकारम् । पृष्ठप्रदेशभाविबहुपुद्गलप्रचयविशेषलक्षणस्य निर्वर्तकं कुब्जसंस्थाननाम । सर्वाङ्गोपाङ्गइस्वव्यवस्थाविशेषकारणं वामनसंस्थाननाम । सर्वाङ्गोपाङ्गानां हुण्डसंस्थितत्वात् हुण्डसंस्थाननाम ।
यदुदयादस्थिबन्धनविशेषस्तत्संहननम् ।। यस्योदयादस्थिबन्धनविशेषो भवति तत्संह- ५ ननम् । तत्षड्विधम्-वंजर्षभनाराचसंहनननाम, वनाराचसंहनननाम नाराचसंहनननाम, अर्धनाराचसंहनननाम, कीलिकासंहनननाम, असंप्राप्तमृपाटिकासंहनननाम चेति । तत्र वनाकारोभयास्थिसन्धि प्रत्येकं मध्ये वलयबन्धनं सनाराचं सुसंहतं वर्षभनाराचसंहननम् । तदेव वलयबन्धनविरहितं वञनाराचसंहननम् । तदेवोभयं वज्राकारबन्धनव्यपेतमवलयबन्धनं सनाराचं नाराचसंहननम् । तदेवैकपार्वे सनाराचम् इतरात्रानाराचम् अर्धनाराचसंहननम् । तदु- १० भयमन्ते सकीलं' कीलिकासंहननम् । अन्तरसंप्राप्तपरस्परास्थिसन्धि बहिःसिरास्नायुमांसघटितम् असंप्राप्तसृपाटिकासंहननम् ।।
__ यदुदयात् स्पर्शरसगन्धवर्णविकल्पा अष्टपञ्चद्विपञ्चसंख्यास्तानि स्पर्शनामादीनि ।१०॥ यस्योदयात् स्पर्शप्रादुर्भावः तत् स्पर्शनाम । तदष्टविधम्-कर्कशनाम, मृदुनाम, गुरुनाम, लघुनाम, स्निग्धनाम, रूक्षनाम, शीतनाम, उष्णनाम चेति । यग्निमित्तो रसविकल्पः तद्रसनाम । तत्पश्च- १५ विधम-तिक्तनाम, कटकनाम, कषायनाम, आम्लनाम, मधुरनाम चेति । यदुदयप्रभवो गन्धस्तद्गन्धनाम । तद्विविधम्-सुरभि गन्धनाम, असुरभिगन्धनाम चेति । यद्धतुको वर्णविभागस्त- ' वर्णनाम । तत्पश्चविधम्-कृष्णवर्णनाम, नीलवर्णनाम, रक्तवर्णनाम, हारिद्रवर्णनाम, शुक्लवर्णनाम चेति । अचेतनेषु स्पर्शादयः कथमिति चेत् ? न कर्मोदयकृतास्ते, पुद्गलस्वभावपरिणामाः।
यदुदयात् पूर्वशरीराकाराऽविनाशस्तदानुपूयं नाम ॥११॥ यत्पूर्वशरीराकाराऽविनाशः यस्योदयाद्भवति तदानुपूयं नाम । तच्चतुर्विधम्-नरकगतिप्रायोग्यानुपूयं नाम तिर्यग्गतिप्रायोग्यानुपूर्व्य नाम मनुष्यगतिप्रायोग्यानुपूर्व्य नाम देवगतिप्रायोग्यानुपूर्व्य नाम चेति । यदा छिन्नायुर्मनुप्यस्तिर्यग्वा पूर्वेण शरीरेण वियुज्यते तदैव नरकभवं प्रत्यभिमुखस्य तस्य पूर्वशरीरसंस्थानानिवृत्तिकारणं विग्रहगतावुदेति तन्नरकगतिप्रायोग्यानुपूर्व्यनाम । एवं शेषेष्वपि योज्यम् । ननु च तन्नि- २५ र्माणनामकर्मसाध्यं फलं नानुपूर्व्यनामोदयकृतम् ? नैष दोषः; पूर्वायुरुच्छेदसमकाल एव पूर्वशरीरनिवृत्तौ निर्माणनामोदयो निवर्तते, तस्मिन्निवृत्तेऽष्टविधकर्म तैजसकार्मणशरीरसंबन्धिन आत्मनः पूर्वशरीरसंस्थानाविनाशकारणमानुपूर्व्यनामोदयमुपैति । तस्य कालो विग्रहगतौ जघन्येनैक समयः, उत्कर्षेण त्रयः समयाः । ऋजुगतौ तु पूर्वशरीराकारविनाशे सति उत्तरशरीरयोग्यपुगलग्रहणान्निर्माणनामकर्मोदयव्यापारः । _ यनिमित्तमगुरुलघुत्वं तदगुरुलघुनाम ॥१२॥ यस्योदयादयस्पिडण्वत् गुरुत्वान्नाधः पतति न वाऽर्कतूलवल्लघुत्वावं गच्छति तदगुरुलघुनाम। धर्मादीनामजीवानां क चेत् ? अनादिपारिणामिकागुरुलघुत्वगुणयोगात् । मुक्तजीवानां कथमिति चेत् ? अनादिकर्मनोकर्मसंबन्धानां कर्मोदयकृतमगुरुलघुत्वम् , तदत्यन्तविनिवृत्तौ तु स्वाभाविकमाविर्भवति ।
गुरुलघुत्वमिति
१-प्रापित्वादन्व-मु०, द०,०। २ वज्रऋ- ता०, मू०, श्र०, द० । ३ सकीलकंकीमु.। . अन्तरमाल-मू०, द०, श्र०, ब० । ५-यभवो-मु०, द०। ६-म प-मू०, ता०, श्र० । ७-नैका स-सा०, श्र०।