________________
उपजातिवृत्तम् यत्रापदां वृन्दमुपैति वृद्धि, कन्दस्तरूणामिव वारिभूमौ । त्यजन्ति तत्किं न मनीषिमुख्या, द्यूतं दुराकूतमनूतमार्यैः ।।१४।।
शार्दूलविक्रीडितवृत्तम् स्थानं शून्यगृहं विटा: सहचराः स्निग्धश्च वेश्याजन:, पार्षद्याः परमोषिणः परिजनाः कादंबरीपायिनः ।
व्यापारश्च परप्रियापरिचय: ख्यातिश्च वित्तव्ययो, येषां द्यूतकृतां कथामपि कथं कुर्यात्समं तैः सुधीः ।।९५।।
માંસત્યાગપ્રઝમ निःकर्णेष्विव गीतिरीतिरफला सद्ध्यानधौरेयता, कारुण्यस्य कथा वृथा मृगदृशां दृक्केलिरंधेष्विव । निविष्विव वस्त्रवेषरचना वैदग्ध्यबुद्धिर्मुधा, मांसास्वादिषु देहिषु प्रणयिता व्यर्था लतेवाग्निषु
॥९६।।