________________
ઘૂdયાગ પ્રઝમ
वसंततिलकावृत्तम् भक्तिं भनक्ति विनयं विनिहन्ति तृष्णां, पुष्णाति तर्जयति वर्यमजर्यवीर्यम् ।
पूजां पराभवति नीतिमपाकरोति, द्यूतं विदूरयत तद्व्यसनाध्वसूतम् ।।९१।।
शार्दूलविक्रीडितवृत्तम् वंध्यां धाम्नि वधू विधाय स कुधीधुर्य: सुतानीहते । झम्पापातमुपेत्य पर्वतपतेः प्राणान् स च प्रेप्स्यति । सच्छिद्रामधिरुह्य नावमुदधेः कूलं च काङ्क्षत्यसौ, कृत्वा कैतवकौतुकं प्रकुरुते वित्तस्पृहां यो जडः ।।१२।।
भ्रातॄन् भूतभराभिभूत इव यल्लुब्धो दृशा नेक्षते, भक्तोक्तिं शृणुते न च ज्वरितवद्यद्दत्तचित्तः पुमान् ।
लज्जामुज्झति मद्यमूर्च्छित इवासक्तश्च यत्र द्रुतं, द्यूतं वित्तविनाशनं त्यज सखे! तन्मूर्खमैत्रीमिव ।।९३।।