________________
3
You
वसंततिलकावृत्तम् स्वैरं भ्रमञ्जगति चित्तनिशाचरोऽयं, यैर्यन्त्रितः सुकृतकृत्यमनोज्ञमन्त्रैः । तेषामशेषसुखपोषिणि सिद्धिसौधे, वासः सदाः समजनिष्ट समाधिभाजाम् ||८८||
उपजातिवृत्तम् विना मनः शुद्धिमशेषधर्मकर्माणि कुर्वन्नपि नैति सिद्धिम् । दृग्भ्यां विना किं मुकुरं करेण, वहन्नपीक्षेत जनः स्वरुपम् ||८९ ।।
शार्दूलविक्रीडितवृत्तम् दूतीं मुक्तिमृगीदृशो यदि मनः शुद्धिं विधातुं रतिस्तत्स्वर्णे रमणीजने च हृदयं रक्ष्यं प्रलुभ्यत्सखे ! । एतल्लोभभराभिभूतहृदये न स्वार्थसार्थप्रथा, प्रादुर्भावमुपैति शंवररुहां रोहः शिलायामिव ।। ९०।।
us