________________
शार्दूलविक्रीडितवृत्तम् विश्रम्भं भुजगीव जीविततनुं व्याहन्ति या देहिनां,
या सौहार्दमपाकरोति शुचितां स्पर्शोऽशुचीनामिव । या कौटिल्यकलां कलामिव विधोः पुष्णाति पक्ष: सितस्तां निर्मोकमिवोरगः क्षतगतिं मायां न को मुञ्चति ।।४३।।
ये कौटिल्यकलाकलापकुशलास्ते सन्त्यनेके क्षितौ,
ये हार्यार्जववर्यवीर्यसदनं ते केचिदेव ध्रुवम् ।
लभ्यन्ते हि पदे पदे फलभरैर्नमा दरिद्रुमाः, संप्रीणन् भुवनानि पेशलफलैरल्पो हि कल्पद्रुमः ।।४४।।
अनुष्टुप्वृत्तम् उमाया इव मायायाः, संपर्कं मुञ्च मुञ्च रे । ईश्वरोऽपि नरो नूनं, यत्संगाद् भीमतां भजेत् ।।४५।।