________________
काव्यं काव्यकलाकलापकुशलान् गीतं च गीतप्रियान, स्मेराक्षी स्मरघस्मरातिविधुरान् वार्ता च वार्तारतान् ।
चातुर्यं च चिरं विचारचतुराँस्तृप्नोति दानं पुनः, सर्वेभ्योऽप्यधिकं जगन्ति युगपत्प्रीणाति यत्त्रिण्यपि ।।१६।।
શાલ પ્રમ शीलादेव भवन्ति मानवमरुत्संपत्तयः पत्तयः, शीलादेव भुवि भ्रमन्ति शशभृद्विस्फुर्तयः कीर्तयः,
शीलादेव पतन्ति पादपुरतः सच्छक्तयः शक्तयः, शीलादेव पुनन्ति पाणिपुटकं सर्वर्द्धय: सिद्धयः ।।१७।।
वाल्लभ्यं वितनोति यच्छति यश: पुष्णाति पुण्यप्रथां,
सौन्दर्यं सृजति प्रभां प्रथयति श्रेय:श्रियं सिञ्चति । प्रीणाति प्रभुतां धिनोति च धृतिं सूते सूरौकःस्थिति, कैवल्यं करसात्करोति सुभगं शीलं नृणां शीलितम् ।।१८।।