________________
५. कालद्वार (मूल) जले चउक्कं, उड्डलोए चउक्कं दिटुं जाव दो पंडगे दो तित्थगरीत्यादीति गाथार्थः ॥ ६१ ॥ एवं ताव ओघओ सुत्तकारेण कालो एगगाहाए चेव अइदिट्ठो, संपयं वित्थरत्थो एईए चेव गाहाए खेत्ताइमग्गणादारक्कमेण विवरिज्जइ - तत्थ खेत्ते ओघेण तेलोक्के उक्कोसेणं अट्ठसमया णिरंतरं
१. (छा०) जले चतुष्कमूर्ध्वलोके चतुष्कं दृष्टं यावद् द्वौ पंडके द्वे तीर्थकर्यो । २. 'तित्थगरीओ इ-' ख। ३. तावदोघतः सूत्रकारेण काल एकगाथया चैवातिदिष्टः, सांप्रतं विस्तरार्थोऽनया चैव गाथया क्षेत्रादिमार्गणाद्वारक्रमेण विव्रियते - तत्र क्षेत्रे ओघेन त्रैलोक्ये उत्कृष्टेनाष्टसमयान् निरंतरं सिध्यतिकालः । विभागेन पुनर्जम्बूद्वीपेऽष्टसमयाः, एवं धातकीखण्डे पुष्करवरे कर्मभूमिषु सर्वासु भरतैरवतेषु विजयेषु अष्टसमयाः । जले संहरणेन चतुरः समयान्, एवं हरिवर्षादिषु च सर्वक्षेत्रेषु । अधोलोके चतुर उर्ध्वलोके द्वौ, लवणे द्वौ, कालोदधौ द्वौ, क्षेत्रमिति गतम् ॥ काल इति अवसर्पिण्युत्सर्पिणीनोत्सर्पि(णयवसर्पि)णीषु ओघतोऽनुसमयमष्टसमयान्. सिध्यन्ति । विभागतः सुषमासुषमायां सुषमायां च चतुरः समयान्, सुषमदुष्षमायां दुष्षमसुषमायां चाष्टौ समयान्, दुष्षमायामतिदुष्षमायां च चतुरः समयान्, एवमुत्सर्पिण्यामपि, काल इति समाप्तं । गतिरिति, नरकगतावनन्तरगताश्चतुरः समयान्, यत्र वैमानिका पतन्ति तत्राष्टौ समयान्, शेषे चतुरः, गतिरिति समाप्तं । वेद इति, पुरुषवेदपश्चात्कृताः पुरुषवेदानन्तरागतपुरुषेषु भंगेष्वष्टौ समयान् । शेषेषु दशसु चतुरः, वेद इति समाप्तं । तीर्थ इति, तीर्थकरतीर्थे नोतीर्थकरसिद्धा अष्टसमयान्, एवं तीर्थकरीतीर्थे नोतीर्थकरसिद्धा अपि । तीर्थकरा द्वौ समयौ, तीर्थकरी द्वौ समयौ, शेषेषु दशसु चतुरः । लिङ्ग इति, स्वलिङ्गेष्टसमयान्, शेषे चतुरः समये । चरित्र इति, अव्यंजिते पञ्चचरित्रे चतुरः समयान्, शेषे अष्टसमयान् । व्यञ्जिते सामायिक सूक्ष्माथाख्यातेषु अष्टौ समयान्, यत्र परिहारः पतति तत्र चतुरः समयान्, चरित्र इति समाप्तं । ज्ञान इति, अव्यञ्जिते द्विज्ञानपश्चात्कृता द्वौ समयौ, त्रिज्ञान-चतुर्ज्ञानपश्चात्कृताश्वाष्टौ समयान् । व्यजिते अभिनिबोधितश्रुतपश्चात्कृता द्वौ समयौ, यत्रावधिज्ञानं पतति तत्राष्टौ, शेषेषु ज्ञानसंयोगेषु चतुरः समयान् । यतो भणितं - "व्यजितमनोज्ञानयुते दशकमिति" । अवगाहनेति, उत्कृष्टयाऽवगाहनया द्वौ समयौ, जघन्ययाऽवगाहनया द्वौ समयान्, यवमध्यया चतुरः समयान्, अजघन्यानुत्कृष्टयाऽष्टौ समयान्, अवगाहना समाप्ता । उत्कृष्ट इति, अप्रतिपतिता द्वौ समयौ सिध्यन्ति, संख्येयकालपतिताश्चतुरोऽनन्तकालपतिता अष्टौ समयान् निरन्तरं सिध्यन्ति । ४. 'तिलोके क।