________________
१८४
सिद्धप्रामृत : सटीका इहैकोनविंशत्रिका ऊर्ध्वाधःपरिपाट्या पट्टिकादौ स्थाप्यन्ते । तत्र प्रथमे त्रिके न किंचित्प्रक्षिप्यते (शेषेषु अवशिष्टासु दण्डिकासु सदाऽयं वक्ष्यमाणः क्षेपोऽवसेयः) ॥ ८ ॥
दुग पण नवगं तेरस सतरस बावीस छञ्च अनुव । बारस चउदस तह अड-वीसा छव्वीस पणवीसा ॥ ९ ॥ एगारस तेवीसा, सीयाला सयरि सत्तहत्तरिआ । इग दुग सत्तासीई, इगहत्तरिमेव बासठ्ठी ॥ १० ॥ अउणत्तरि चउवीसा, छायाला तह सयं च छव्वीसा । मेलित्तु इगंतरिआ, सिद्धीए तह य सबढे ॥ ११ ॥
द्वितीये द्विकः, तृतीये पञ्च, चतुर्थे नव, पञ्चमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे षट्, नवमेऽष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशेऽष्टाविंशतिः, त्रयोदशे षड्विशतिः, चतुर्दशे पञ्चविंशतिः, पञ्चदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत्, अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विशे एकः, एकविंशे द्वौ द्वाविंशे सप्ताशीतिः, त्रयोविंशे एकसप्ततिः चतुर्विशे द्वाषष्टिः पञ्चविंशे एकोनसप्ततिः, षड्विशे चतुर्विशतिः, सप्तविंशे षट्चत्वारिंशत्, अष्टाविंशे शतम्, एकोनत्रिंशे षड्विशतिः । एतेषु च राशिषु प्रक्षिप्तेषु यद्यद्भवति, तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवंरूपेण ज्ञेयः । तद्यथा-त्रयः सिद्धौ, पश्च सर्वार्थे, ततः सिद्धावष्टौ, द्वादश सर्वार्थे, ततः षोडश सिद्धौ, विंशतिः सर्वार्थे, ततः पंचविंशतिः सिद्धौ, नव सर्वार्थ, तत एकादश सिद्धौ, पञ्चदश सर्वाथे, ततः सप्तदश सिद्धौ, एकत्रिंशत्सर्वार्थे, तत एकोनत्रिंशत् सिद्धौ, अष्टाविंशतिः सर्वार्थे, ततचतुर्दश सिद्धौ, पविशतिः सर्वार्थे, ततः पञ्चाशत्सिद्धौ, त्रिसप्ततिः सर्वार्थे, ततोऽशीतिः सिद्धौ, चत्वारः