________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र कोहज्झवणा माणज्झवणा मायज्झवणा, लोहज्झवणा। से तं अपसत्था। से तं नो आगमओ भावज्झवणा। से तं भावज्झ. वणा।से तं ज्झवणा। से तं ओहनिप्फण्णे ॥सू०२४५॥
छाया-अथ का सा क्षपणा ? क्षपणा-चतुर्विधा प्रज्ञप्ता, तद्यथा-नामक्षपणा स्थापनाक्षपणा द्रव्यक्षपणा भावक्षपणा। नामस्थापने पूर्व भणिते । अथ कासा द्रव्यक्षपणा ? द्रव्यक्षपणा-द्विविधा प्रज्ञप्ता, तद्यथा-आगमतश्च नो आगमतश्च । अथ का सा आगमतो द्रव्यक्षपणा? आगमतो द्रव्यक्षपणा-यस्य खलु क्षपणा इति पदं शिक्षितं स्थितं जितं मितं परिजित यावत् तदेतद् आगमतो द्रव्यक्षपणा। अथ का सा नो आगमतो द्रव्यक्षपणा? नो आगमतो द्रव्यक्षपणा त्रिविधा प्रज्ञप्ता तद्यथा-ज्ञायकशरीरद्रव्यक्षपणा, भपशरीरद्रव्यक्षपणा, ज्ञायकशरीरभव्यशरीरव्यतिरिक्ता द्रव्यक्षपणा। अथ का सा ज्ञायकशरीरद्रव्यक्षपणा? ज्ञायक शरीरद्रव्यक्षपणा-क्षपणा-पदार्थाधिकारज्ञायकस्य यत् शरीरक व्यपगतच्युतच्यावितत्यक्तदेह शेष यथा द्रव्याध्ययनं यावत् सैषा ज्ञायकशरीरद्रव्यक्षपणा । अथ का सा भव्यशरीरद्रव्यक्षपणा ? भव्यशरीरद्रव्यक्षपणा-यो जीवो योनिजन्मनिष्क्रान्तः शेषं यथा द्रव्याध्ययनं यावत् सैषा भव्यशरीरद्रव्यक्षपणा । अथ का सा ज्ञायकशरीरभव्यशरीरव्यतिरिक्ता द्रव्यक्षपणा? ज्ञायकशरीरभव्यशरीरव्यतिरिक्ता द्रव्यक्षपणा-यथा ज्ञायकशरीरभविकशरीरव्यतिरिक्तो द्रव्यायस्तथा भणितव्या, यावत् सैषा मिश्रिका । सैषा लोकोत्तरिका । सैषा ज्ञायक शरीरमव्यशरीरव्यतिरिक्ता द्रव्यक्षपणा। सैषा नो आगमतो द्रव्यक्षपणा, सैषाद्रव्यक्षपणा। अथ का सा भावक्षपणा? भावक्षपणा-द्विविधा प्रज्ञप्ता, तद्यथाआगमतश्च नो आगमतश्च । अथ का सा आगमतो भावक्षपणा? आगमतो भाव क्षपणा-ज्ञायक उपयुक्तः। सैपा आगमतो भावक्षपणा। अथ का सानो आगमतो भावक्षपणा?, नो आगमतो भावक्षपणा-द्विविधा प्राप्ता, तद्यथा-प्रशस्ता च अप्रशस्ता च । अथ का सा प्रशस्ता ?, प्रशस्ता-त्रिविधा प्रज्ञप्ता, तद्यथा-ज्ञान क्षपणा दर्शनक्षपणा चारित्रक्षपणा। सैषा प्रशस्ता । अथ का साअप्रशस्ता? अप्रशस्ता-चतुर्विधा प्रज्ञप्ता, तद्यथा-क्रोधक्षपणा मानक्षपणा मायाक्षपणा लोभ क्षपणा । सैषा अप्रशस्ता । सैंपा नो आगमतो भावक्षपणा। सैषा भावक्षपणा । सैषा क्षपणा । तदेतत् ओघनिष्पन्नम् ॥२४५।।
For Private And Personal Use Only