SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो कारसावणो, जहा एगो साली तहा बहवे साली, जहा बहवे साली तहा एगो साली। से तं एगसेसे समासे। से तं समासिए ॥सू० १८५॥ छाया-अथ किं तत् भावप्रमाणम् ?, भावप्रमाणं-चतुर्विधं प्रज्ञप्तं, तद्यथासामासिकं तद्धितजं धातुकजं निरुक्तिनम् । अथ किं तत् सामासिकं १२ सप्तसमासाः भवन्ति, तद्यथा-द्वन्द्वश्व बहुव्रीहिः कर्मधारयो द्विगुश्च। तत्पुरुषः अव्ययीभावः एकशेषश्च सप्तमः।।१।। अथ कोऽसौ द्वन्द्वः-दन्ताश्च ओष्टौ च दन्तोष्ठम् , स्तनों च उदरं च स्तनोदरम् , वस्त्रं च पात्रं च वस्त्रपात्रम् , अश्वाश्च महिषाश्च अश्वमहिषम् , अहिश्च नकुलश्च अहिनकुलम् । स एष द्वन्द्वः समासः। अथ कोऽसौ बहुव्रीहिः समासः ? बहुव्रीहिः समाप्तः-फुल्ला अस्मिन् गिरौ कुटजकदम्बा सोऽयं गिरिःफुल्लकुटजकदम्बः। स एष बहुव्रीहिसमासः। अथ कोऽसौ कर्मधारयः? कर्मधारयःधवलो वृषभो धवलकृषभः, कृष्णो मृगः कृष्णमृगः, श्वेतः पटः श्वेतपटः, रक्तः पटो रक्तपटः । स एष कर्मधारयः । अथ कोऽप्तौ द्विगुसमासः १ द्विगुसमास:श्रीणि कटुकानि त्रिकटुकम् , त्रीणि मधुराणि त्रिमधुरम् , त्रयो गुणाः-त्रिगुणम् , श्रीणि पुराणि त्रिपुरम् , त्रयः स्वरात्रिस्वरम् , त्रीणि पुष्कराणि त्रिपुष्करम् , त्रीणि बिन्दुकानि त्रिबिन्दुकम् , त्रयः पन्थानः-त्रिपथम् , पश्च नघः पश्चनदम् , सप्त गजाः सप्तगजम् , नव तुरङ्गाः-नवतुरङ्गम् , दश ग्रामाः-दशग्रामम् , दशपुराणिदशपुरम् । स एष द्विगुसमासः। अथ कोऽसौ तत्पुरुषः? तत्पुरुषः-तीर्थ काकःतीर्थकाकः, वने इस्ती-वनहस्ती, वने वराहः-वनवराहः, वने महिष:-वनमहिषः, वने मयूर:-चनमयूरः । स एष तत्पुरुषः। अथ कोऽसौ अव्ययीभावः? अव्ययीभावः-ग्रामस्य पश्चा अनुग्रामम् , एवम् अनुनदिकम् , अनुस्पर्शम् , अनुवरितम् । स एषोऽव्ययीभावः समासः । अथ कोऽप्तौ एकशेषः-एकशेषो यथा एकः पुरुषस्तथा बहवः पुरुषाः, यथा बहवः पुरुषास्तथा एकः पुरुषः, यथा एकः कार्षापणस्तथा बहवः कार्षापणाः, यथा-बहवः कार्षापणास्तथैकः-कार्षापणः, यथा एकः शालिस्तथा बहवः शालयः, यथा बहवः शालयस्तथैकः शालिः। स एष एकशेषः समासः । तदेतत् सामासिकम् ॥१८५॥ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy