SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्र नत्वधिकानीति । ननु ये केचन वान्ति ते वायवः, ते सर्वेऽपि वैक्रियशरीरिणो भवन्ति, वैक्रियशरीरमन्तरेण हि तेषु चेष्टाया प्रभाव एव प्रसच्येत ? इति चेदाह-सकलेऽपि लोके यत्र कचित् शुपिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव यदि ते सर्वेऽपि वायत्रो वैक्रियशरीरवन्तः स्युस्तदा बद्धवैक्रियशरीराणि प्रचुराणि स्युः, न तु पूर्वोक्तपमाणानि । तस्माद् अवैक्रियशरीरिणोऽपि वायवो वान्ति । उक्तं चापि-"अस्थि णं भंते ! ईसि पुरेवाया पच्छावाया मंदावाया महावाया वायंति ? हंता ! अस्थि । कया णं भंते ! जाव वायंति ? गोयमा ! जया णं वाउकाए अहारीयं रीयइ, तया णं जाव वाउकाए उत्तरकिरियं रीयइ, जयाणं वाउकुमारा वाउकुमारीओ वा अप्पाणो वा परस्स वा तदुभयस्स वा अट्ठाए बाउकायं उईरंति, तयाणं ईसिं जाव वायंति" छाया-अस्ति खलु भदन्त ! ईषत् पूर्ववाताः पश्चाद्वाताः मन्दवाता महावाता वान्ति ? हन्त ! अस्ति । कदा खलु भदन्त ! यावद् वान्ति ? गौतम यदा खलु वायुकायो यथा रीतं रीयते, यदा खलु यावद् वायुकाय उत्तरक्रियं रीयते, यदा खलु वायुकुमारा वा वायुकुमार्यों वाऽऽत्मनो वा परस्य वा तदुभयस्य वा. ऽर्थाय वायुकायमुदीरयन्ति, तदा ईषद् यावद् वान्ति ।" इति ॥ यथारीतं-रीतं रीतिः स्वभावस्तदनतिक्रम्य यथारीतं स्वभावानुसारेण रीयते गच्छति । स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः । उत्तरक्रियम्-उत्तरा-उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तद्यथा भवति तथा रीयते गच्छतीत्यर्थः । अनेन सन्दर्भणात्र वायुकायिकानां गतो त्रयः प्रकाराः प्रदर्शिताः। तत्र तेषां स्वाभाविकगमनमप्युक्तम् । इत्थं च वैक्रियशरीरसम्पन्ना एव वायवो वान्तीति नास्ति नियमः । अतो मुलोक्ताऽसंख्येयप्रमाणानि शरीराणि बोध्यानीति । तथा-वायुकायिकानां मुक्तवैक्रियशरीराणि द्विविधान्याहारकशरीराणि च पृथिवीकायिकमुक्तवैक्रयशरीरवद् द्विविधाहारकशरीरवच बोध्यानि । एषां तैजसकामकशरीराण्यपि पृथिवीकायिकतैजसकामकशरीरवद् वोध्यानि तथा-वनस्पतिकायिकानामौदारिकवैक्रियाहारकशरीराणि पृथिवीकायिकवद् बोध्यानि । एषां द्विविधान्यपि तैजसगया है। मुक्त क्रियशरीर यहां अनंत कहे गये हैं। पृथिवीकायिकजीवों के औदारिक, वैक्रिय और आहारक शरीरों की संख्या के जैसा ही वनस्पतिकायिक जीवों में इन शरीरों की संख्या प्रकट की गई है। આવ્યું છે મુક્ત વૈક્રિય શરીરે અહીં અનંત કહેવામાં આવ્યાં છે, પૃથિવીકાયિક જીના દારિક, વૈકિય અને આહારક શરીરની સંખ્યાની જેમ જ વનસ્પતિકાયિક જીવમાં આ શરીરની સંખ્યા પ્રકટ કરવામાં આવી છે. For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy