________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशम् तोयं जीवनजीवनीयसलिलााँस्यम्बु वाः संवरम् । क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसी कीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १३५ ॥ कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् । अस्थाघास्थागमस्ताघमगाधं चातलस्पृशि निम्नं गभीरं गम्भीरमुत्तानं तद्विलक्षणम् । अच्छं प्रसन्नेऽनच्छं स्यादाविलं कलुषं च तत् ॥१३७ ।। अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम् । स्यान्नीहारस्तुषारश्च हिमानी तु महद्धिमम्
॥१३८॥ पारावारः सागरोऽवारपारोकूपारोदध्यर्णवो वीचिमाली । यादःस्रोतोवानंदीशः सरस्वान् सिन्धूदन्वन्तौ मितद्रुः समुद्रः।। १३९ ॥ आकरो मकराद्रत्नाज्जलान्निधिधिराशयः । द्वीपान्तरा असङ्ख्यास्ते सप्तैवेति तु लौकिकाः ॥ १४०॥ लवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः । तरङ्गे भङ्गवीच्यूर्युत्कलिका महति विह
॥ १४१॥ लहर्युल्लोलकल्लोला आवर्तः पयसां भ्रमः । तालूरो वोलकश्चासौ वेला स्याद्वृद्धिरम्भसः ॥१४२॥ डिण्डीरोऽब्धिकफ: फेनो बुबुदस्थासकौ समौ । मर्यादा कूलभूः कूलं प्रपात: कच्छरोधसी
॥ १४३॥ तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् । सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम्
॥ १४४॥ तत्परं पारमवारं त्वर्वाक्पात्रं तदन्तरम् । नदी हिरण्यवर्णा स्याद्रोधोवका तरङ्गिणी
।। १४५ ।।
८१
For Private And Personal Use Only