________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १२३ ॥
॥ १२४॥
।। १२५ ॥
॥ १२६ ॥
॥ १२७॥
॥ १२८ ।।
द्वितीयं पुष्पकासीसं केसकं नयनौषधम् । गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धको सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् । बिडालकं विस्रगन्धि खरं वंशपत्रकम् आलपीतनतालानि गोदन्तं नटमण्डनम् । वङ्गारिलोमहृच्चाऽथ मनोगुप्ता मन: शिला करवीरा नागमाता रोचनी रसनेत्रिका । नेपाली कुनटी गोला मनोह्वा नागजिबिका सिन्दूरं नागजं नागरक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः शिलाजतु स्याद्गिरिजमर्थ्य गैरेयमश्मजम् । क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलस्थिका बोलो गन्धरसः प्राणः पिण्डो गोपरस: शशः । रत्नं वसु मणिस्तत्र वैडूर्यं वालवायजम् मरकतं त्वश्मग गारुत्मतं हरिन्मणिः । पद्मरागो लोहितकलक्ष्मीपुष्पाऽरुणोपलाः नीलमणिस्त्विन्द्रनीलः सूचीमुखं तु हीरकः । वरारकं रत्नमुख्यं वज्रपर्यायनाम च विराटजो राजपट्टो राजावर्तोऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम्
॥ १२९॥
॥ १३० ॥
॥१३१ ॥
॥ १३२ ॥
॥ १३३ ॥
॥ १३४ ॥
CO
For Private And Personal Use Only