________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १११ ॥
॥ ११२ ॥
॥११३॥
॥ ११४ ॥
॥ ११५ ॥
॥ ११६॥
जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । हिरण्यकोशाकुप्यानि हेम्नि रूप्ये कृताकृते कुप्यं तु तवयादन्यद्रूप्यं तद्वयमाहतम् । अलंकारसुवर्णं तु शृङ्गीकनकमायुधम् रजतं च सुवर्णं च संश्लिष्टे घनगोलकः । पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी कांस्ये विद्युत्प्रियं घोषः प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराढे रवणं लोहजं मलम् सौराष्ट्रके पञ्चलोहं वर्तलोहं तु वर्तकम् । पारदः पारतः सूतो हरबीजं रसश्चल: अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजामले । स्रोतोऽञ्जनं तु कापोतं सौवीरं कृष्णयामुने अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके । मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् । रसग तार्क्ष्यशैलं तुत्थे दार्वीरसोद्भवे पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च । माक्षिकं तु कदम्बः स्याच्चकनामाऽजनामक: ताप्यो नदीज: कामारिस्तारारिर्विटमाक्षिकः । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती आढकी तुवरी कंसाद्भवा काच्छी मृदाह्वया । कासीसं धातुकासीसं खेचरं धातुशेखरम्
॥ ११७ ॥
॥ ११८॥
॥ ११९ ॥
॥ १२० ॥
।। १२१ ॥
॥ १२२॥
८०
For Private And Personal Use Only