________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रोणी तु शैलयोः सन्धिः पादाः पर्यन्तपर्वताः। दन्तकास्तु बहिस्तिर्यक्प्रदेशा निर्गता गिरेः
।। १०० ॥ अधित्यकोर्ध्वभूमिः स्यादधोभूमिरुपत्यका। स्तुः प्रस्थं सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०१॥ ग्रावा शिलोपलो गण्डशैला: स्थूलोपलाश्च्युताः । स्यादाकरः खनिः खानिर्गञ्जा धातुस्तु गैरिकम् ॥१०२॥ शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी। लोहं कालायसं शस्त्रं पिण्डं पारशवं घनम्
॥ १०३ ॥ गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः । सिंहानधूर्तमण्डूरसरणान्यस्य किट्टके
।। १०४॥ सर्वं च तैजसं लोहं विकारस्त्वयसः कुशी । तानं म्लेच्छमुखं शुल्वं रक्तं व्यष्टमुदुम्बरम् ।।१०५ ॥ म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् । ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्रकम्
॥ १०६॥ नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् । वधं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम्
॥ १०७ ॥ वङ्गं त्रपु स्वर्णजनागजीवने मृद्वङ्गरने गुरुपत्रपिच्चटे। स्याच्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि।। १०८ ॥ स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकम् खर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः । स्वर्णं हेमहिरण्यहाटकवसून्यष्यपदं काञ्चनम् कल्याणं कनकं गहारजतरैगाङ्गेयरुक्माण्यपि ||१०९॥ कलधौतलौहोत्तमवह्निबीजा-न्यपि गारुडं गैरिकजातरूपे। तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥११० ॥
८८
For Private And Personal Use Only