________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७७ ॥
॥ ७८ ॥
॥ ७९ ॥
।। ८० ॥
|| ८१ ॥
।। ८२ ।।
नीवं वलीकं तत्प्रान्त इन्द्रकोशस्तमङ्गकः । वलभी छदिराधारो नागदन्तास्तु दन्तकाः मत्तालम्बोऽपाश्रयः स्यात्प्रग्रीवो मत्तवारणे । वातायनो गवाक्षश्च जालकेऽथान्नकोष्टक: कुसूलोऽश्रिस्तु कोणोऽणि: कोटि: पाल्यस्र इत्यपि । आरोहणं तु सोपानं नि:श्रेणिस्त्वधिरोहणी स्थूणा स्तम्भ: सालभञ्जी पाञ्चालिका च पुत्रिका । काष्ठादिघटिता लेप्यमयी त्वञ्जलिकारिका नन्द्यावर्तप्रभृतयो विच्छन्दा आढ्यवेश्मनाम् । समुद्गः संपुटः पेटा स्यान्मञ्जूषाऽथ शोधनी संमार्जनी बहुकरी वर्धनी च समूहनी। सङ्करावकरी तुल्यावुदूखलमुलूखलम् प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् । कटः किलिञ्जो मुसलोऽयोग्रं कण्डोलक: पिटम् चालनी तितउः शूर्प प्रस्फोटनमथान्तिका । चुल्ल्यश्मन्तकमुद्धानं स्यादधिश्रयणी च सा स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः । कुट: कुम्भः करीरश्च कलश: कलसो निपः हसन्यङ्गाराच्छकटीधानीपात्र्यो हसन्तिका । भ्राष्ट्रोऽम्बरीष ऋचीषमृजीषं पिष्टपाकभृत् कम्बिदविः खजाकाऽथ स्यात्तर्दूर्दारुहस्तकः । वार्धान्यां तु गलन्त्यालूः कर्करी करकोऽथ सः नालिकेरजः करङ्कस्तुल्यौ कयहकर्परौ । मणिकोऽलिञ्जरो गर्गरीकलश्यौ तु मन्थनी
।। ८३ ॥
|| ८४ ॥
।। ८५ ॥
।। ८६ ॥
|| ८७ ॥
।। ८८।।
८८
For Private And Personal Use Only