________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६५॥
॥६६॥
॥६७॥
॥६८॥
॥ ६९ ॥
॥ ७० ॥
सन्दानिनी तु गोशाला चित्रशाला तु जालिनी । कुम्भशाला पाकपुटी तन्तुशाला तु गतिका नापितशाला वपनी शिल्पा खरकुटी च सा । आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रयः आश्रमस्तु मुनिस्थानमुपघ्नस्त्वन्तिकाश्रयः । प्रपा पानीयशाला स्याद् गञ्जा तु मदिरागृहम् पक्कणः शबरावासो घोषस्त्वाभीरपल्लिका । पण्यशाला निषद्याऽट्टो हट्टो विपणिरापणः वेश्याऽऽश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः । कुड्यं भित्तिस्तदेडूकमन्तनिहितकीकसम् वेदी वितर्दिरजिरं प्राङ्गणं चत्वराङ्गने । वलजं प्रतीहारो द्वारिऽथ परिघोऽर्गला साऽल्पा त्वर्गलिका सूचिः कुञ्चिकायां तु कूचिका। साधारण्यङ्कुटश्चासौ द्वारयन्त्रं तु तालकम् अस्योद्घाटनयन्त्रं तु ताल्यपि प्रतिताल्यपि । तिर्यग्द्वारोव॑दारूत्तरङ्गं स्यादररं पुनः कपाटोऽररि: कुवाट: पक्षद्वारं तु पक्षकः । प्रच्छन्नमन्तारं स्याद्बहिरं तु तोरणम् तोरणोद्धे तु मङ्गल्यं दाम वन्दनमालिका। स्तम्भादेः स्यादधोदारी शिला नासोर्ध्वदारुणि गोपानसी तु वलभीच्छादने वक्रदारुणि । गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः प्रघाणः प्रघणोऽलिन्दो बहिरिप्रकोष्ठके। कपोतपाली विटङ्कः पटलच्छदिषी समे
।। ७१ ॥
॥७२॥
॥ ७३ ॥
॥ ७४ ।।
॥ ७५ ॥
॥ ७६ ॥
૮૫
For Private And Personal Use Only