SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५३ ॥ ॥५४॥ ॥ ५५ ॥ ॥ ५६ ॥ ।। ५७॥ ॥५८॥ घण्टापथः संसरणं श्रीपथो राजवर्म च । उपनिष्क्रमणं चोपनिष्करं च महापथः विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । श्लेषस्त्रिमार्याः शृङ्गाट बहुमार्गी तु चत्वरम् श्मशानं करवीरं स्यात्पितृप्रेताद् वनं गृहम् । गेहभूर्वास्तु गेहं तु गृहं वेश्म निकेतनम् मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् धिष्ण्यमावसथ: स्थानं पस्त्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः । चतुःशालं संजवनं सौधं तु नृपमन्दिरम् उपकारिकोपकार्या सिंहद्वारं प्रवेशनम् । प्रासादो देवभूपानां हयं तु धनिनां गृहम् मठावसथ्यावसथाः स्युश्छात्रव्रतिवेश्मनि । पर्णशालोटजश्चैत्यविहारौ जिनसद्मनि गर्भागारेऽपवरको वासौकः शयनास्पदम्। भाण्डागारं तु कोशः स्याच्चन्द्रशाला शिरोगृहम् कुप्यशाला तु सन्धानी कायमानं तृणौकसि । होत्रीयं तु हविर्गेहं प्राग्वंशः प्राग् हविर्गृहात् आथर्वणं शान्तिगृहमास्थानं गृहमिन्द्रकम् । तैलिशाला यन्त्रगृहमरिष्टं सूतिकागृहम् सूदशाला रसवती पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा ॥६०॥ ॥ ६१ ॥ ॥६२ ॥ ।। ६३ ॥ ॥६४॥ ८४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy