________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४१ ।।
॥ ४२ ॥
॥४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
साकेत कोसलाऽयोध्या विदेहा मिथिला समे । त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् उज्जयनी स्याद्विशालाऽवन्ती पुष्पकरण्डिनी । पाटलिपुत्रं कुसुमपुरं चम्पा तु मालिनी लोमपादकर्णयोः पूर्देवीकोट उमावनम् । कोटिवर्ष बाणपुरं स्याच्छोणितपुरं च तत् मथुरा तु मधूपघ्नं मधुराऽथ गजाह्वयम् । स्याद् हास्तिनपुरं हस्तिनीपूरं हस्तिनापुरम् तामलिप्तं दामलिप्तं तामलिप्ती तमालिनी । स्तम्बपूर्विष्णुगृहं च स्याद्विदर्भा तु कुण्डिनम् द्वारवती द्वारका स्यान्निषधा तु नलस्य पूः । प्राकारो वरणः साले चयो वप्रोऽस्य पीठभूः प्राकाराग्रं कपिशीर्षं क्षौमाट्टाट्टालकाः समाः । पूरि गोपुरं रथ्याप्रतोलीविशिखाः समाः परिकूटं हस्तिनखो नगरद्वारकूटके । मुखं निःसरणे वाटे प्राचीनावेष्टको वृतिः पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः सत्पथे स्वतितः पन्था अपन्था अपथं समे। व्यध्वो दुरध्वः कदध्वा विपथं कापथं च सः प्रान्तरं दूरशून्योऽध्वा कान्तारो वर्त्म दुर्गमम् । सुरङ्गा तु सन्धिला स्याद्गूढमार्गो भुवोऽन्तरे चतुष्पथे तु संस्थानं चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारपथो गजाद्यध्वा त्वसङ्कुल:
॥४७॥
॥४८॥
॥४९॥
॥ ५० ॥
।। ५१ ॥
।। ५२॥
८3
For Private And Personal Use Only