________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २९ ॥
॥ ३०॥
।। ३१ ॥
॥ ३२॥
॥३३॥
॥ ३४ ॥
ग्रामसीमा तूपशल्यं मालं ग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः गोस्थानं गोष्ठमेतत्तु गौष्ठीनं भूतपूर्वकम् । तदाशितङ्गवीनं स्याद् गावो यत्राशिताः पुरा क्षेत्रे तु वप्रः केदारः सेतौ पाल्यालिसंवराः । क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् त्रैहेयं शालेयं षष्टिक्यं कौद्रवीणमौद्गीने । व्रीह्यादीनां क्षेत्रेऽणव्यं तु स्यादाणवीनमणोः भङ्गयं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माष्यं भङ्गादिसम्भवम् सीत्यं हल्यं त्रिहल्यं तु त्रिसीत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्याद्येवं शम्बाकृतं च तत् बीजाकृतं तूप्तकृष्टं द्रौणिकाढकिकादयः । स्युर्दोणाढकवापादौ खलधानं पुनः खलम् चूर्णे क्षोदोऽथ रजसि स्युर्दूलीपांशुरेणवः । लोष्टे लोष्टुर्दलिलेष्टुर्वल्मीक: कृमिपर्वतः वधीकूटं वामलूरो नाकुः शक्रशिरश्च सः । नगरी पू: पुरी द्रङ्गः पत्तनं पुटभेदनम् निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च । शाखापुरं तूपपुरं खेट: पुरार्द्धविस्तरः स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे। गया पूर्गयराजर्षेः कन्यकुब्जं महोदयम् कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् । काशिर्वराणसी वाराणसी शिवपुरी च सा
॥ ३५॥
॥३६॥
॥ ३७॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
૮૨
For Private And Personal Use Only