SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १७॥ ॥ १८ ॥ ॥ १९॥ ॥ २० ॥ ॥ २१ ॥ ।। २२ ॥ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः देशः प्राग् दक्षिणः प्राच्यो नदी यावच्छरावतीम् । पश्चिमोत्तरस्तूदीच्यः प्रत्यन्तो म्लेच्छमण्डल: पाण्डूदक्कृष्णतो भूमः पाण्डूदक्कृष्णमृत्तिके । जङ्गलो निर्जलोऽनूपोऽम्बुमान् कच्छस्तु तद्विधः कुमुद्वान् कुमुदावासो वेतस्वान् भूरिवेतसः । नडप्रायो नडकीयो नड्वांश्च नड्वलश्च सः शाद्वल: शादहरिते देशो नद्यम्बुजीवनः । स्यान्नदीमातृको देवमातृको वृष्टिजीवनः प्राग्ज्योतिषाः कामरूपा मालवाः स्युरवन्तयः । त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते वङ्गास्तु हरिकेलीया अङ्गाश्चम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः जालन्धरास्त्रिगर्ताः स्युस्तायिकास्तजिकाभिधाः । कश्मीरास्तु माधुमता: सारस्वता विकर्णिकाः वाहीकाष्टक्कनामानो वाल्हीका वाल्हिकाह्वयाः । तुरुष्कास्तु साखयः स्युः कारूषास्तु बृहद्गृहाः लम्पाकास्तु मुरुण्डाः स्युः सौवीरास्तु कुमालकाः । प्रत्यग्रथास्त्वहिच्छत्राः कीकटा मगधाह्वयाः ओण्ड्राः केरलपर्यायाः कुन्तला उपहालकाः । ग्रामस्तु वसथः संनिप्रतिपर्युपतः परः पाटकस्तु तद॰ स्यादाघाटस्तु घटोऽवधिः । अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि ।। २३ ॥ ॥ २४॥ ॥ २५ ॥ ।। २६ ॥ ॥ २७॥ ॥२८॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy